________________
सटीकजंबूद्वीपसङ्ग्रहणी
चोदीच्यां । तत्र दाक्षिणात्येषु अष्टसु विजयेषु प्रत्येकं गङ्गासिन्ध्वभिख्ये द्वे द्वे, एवं ता अपि षोडश । उदीचीनेषु चाष्टसु विजयेषु प्रत्येकं रक्तरक्तवत्यभिधे द्वे द्वे, ता अपि षोडश । सर्वाः सम्मील्याष्टत्रिंशन्महानद्यः । तासु प्रत्येकं चतुर्दशसहस्रपरिवार तथा च सर्वासां परिवारसम्मीलने पञ्चलक्षद्वात्रिंशत्सहस्री नदीनां सीतोदायां निपतति । एवमेव नीलवन्केसरिद्रहदाक्षिणात्यद्वारान्निर्गता सीता उत्तरकुरुषु आगच्छन्ती नीलवदादिपञ्चद्रहान् द्विधाकुर्वन्ती भद्रशालवनमागच्छन्ती मेरोर्द्वियोजनान्तरिता प्राचीनविदेहाभिमुखं वलन्ती माल्यवद्गजदन्तनगं भित्त्रा प्राचीनविदेहं द्विभागी कुर्वन्ती एकैकस्माद् विजयादष्टाविंशतिसहस्रनदीपूरयन्ती तथा च षोडशविजयेभ्यश्चतुर्लक्षाष्टचत्वारिंशत्सहस्र नदी परिवृता, [ तथा चतुरशीतिसहस्रपरिवारयुताभिः षइभिर्विजयच्छेदनीभिर्नदीभिः पूरयन्ती] सर्वा: सम्मील्य पञ्चलक्षद्वात्रिंशत्सहस्रनदीप रिकरिता जंबूद्वीपप्राचीनस्थविजयाभिधद्वाराघो जगतीं भित्रोभयोः पार्श्वयोः पद्मवरवेदिका वनखण्डपरिकरिता प्राचीनलवणाम्बुराशिं सङ्गच्छति । अत्रापि दाक्षिणात्यप्राचीन विदेहस्य प्रत्येकं विजयेषु गङ्गासिन्ध्वभिधे द्वे द्वे सरितौ, उदीचीनविदहेषु च रक्तारक्तवत्यभिधे दे द्वे सलिले, एवं च षोडशविजयेषु द्वात्रिंशत् नद्यः, षट् च निषधनीलवकुण्डनिर्गतद्वादशान्तर्गताः एवं च अप्टत्रिंशत् । तासु च प्रत्येकं चतुर्दशसहस्र परिवारः । एवं च सर्वा: सम्मील्य पञ्चलक्षद्वात्रिंशत्सहत्री नदीनां सीतायां सङ्गच्छते ।
७९
अथाष्टत्रिंशन्नद्यश्चतुर्दशसहस्रं गुणिताः कियत्सङ्ख्याका भवन्ति इति तां सङ्ख्या जम्बूद्वीपसर्व नदीसख्यां च दिदर्शयिषुराह भगवान् हरिभद्रसूरिः ।
यासोयाविय बत्तीससहस्स पंचलक्खेहिं ।
सब्वे चउदसलक्खा छप्पनसहरूस मेलविया ||२५||
सीयासीययति सीतासीतोदे, अवियत्ति अपि च, बत्तीस सहस्रपंचलक्खेहिंति द्वात्रिशत्सहस्रोत्तरपञ्चलक्षसडख्याभिर्जलधि सङ्गच्छत इति शेषः सच्वेत्ति सर्वा: मेलवियत्ति मेलिना चउदसलक्खाछप्पन सहस्सत्ति षट्पञ्चाशत सहस्रोत्तर चतुर्दशलक्षसङ्ख्या भवन्तीति शेषः । इति पदगमनिका । अयं भावः । सीतासीतोदे तावत् पूर्वप्रतिपादितप्रकारेण प्रत्येकं पञ्च लक्षद्वात्रिंशत्सहस्रसङ्ख्याभिर्नदीभिः समुद्रमभिगच्छतः । सर्वासां गङ्गासिन्ध्वादीनां परिवारे मिलिते चतुर्दशलक्षषट्पञ्चाशत्सहस्रसङ्ख्या नदीनां भवति तथाहि भरतस्थगङ्गायाश्चतुर्दशसहस्रपरिवारः, भरतस्थसिन्धवाः चतुर्दशसहस्रपरिवार ऐरवतस्थरक्ताया अपि तावान् परिवारः, ऐवतस्थरक्तावत्या अपि तावान् । हिमवदस्थरोहिताया अष्टाविंशतिसहस्रपरिवार, रोहितांशाया अपि तावान् । हिरण्यवत्स्थयोस्सुवर्णकुलारूप्यकुलयोस्तावन्तौ परिवारौ । हरिवर्षस्थहरिकान्तायाः षट्पञ्चाशत्सहस्र परिवारः, हरिसलिलाया अपि तावान् । रम्यकस्थनरकान्तानारीकान्तयोस्तावन्तौ परिवारौ विज्ञेयौ । विदेहस्थसीतायाः पञ्चलक्षद्वात्रिंशत्सहस्रपरिवारः, सीतोदाया अपि तावानेव परिवारः । ननु