SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहणी कुरुमज्झेत्ति कुरुमध्ये चउरासिसहस्साइंति चतुरशीतिसहस्नाणि तहयत्ति तथा च, विजयसोलससुत्ति विजयषोडशसु, बत्तीसाणत्ति द्वात्रिंशानां नईणांते नदीनां, चउदससहस्साइंति चतुर्दशसहस्राणि, पत्तेयंति प्रत्येकं इति पदसंघटना । अयं भावः । निषधनीलवतोस्तिगिञ्छिकेसरिद्रहयोरुदीचीनदाक्षिणात्यद्वारयोः सीतोदासीताभिख्ये द्वे सरितौ निर्गते। तथा हि तिगिञ्छिद्रहोदीचीनद्वारान्निर्गता सीतोदा देवकुर्वन्तरालगच्छन्ती निषधादिद्रहाणां द्विभागीकुर्वन्ती दहेभ्यो वहन्ती चतुरशीतिसहस्रनदीपूर्णा भद्रशालवनमागच्छन्ती मेरोः प्रतीच्या प्रतीचीनविंदेहं द्विभागीकुर्वन्ती एकैकस्माद्विजयात् अष्टाविंशतिसहस्रनदीपूरयन्ती तथा च षोडशविजयेभ्यः चतुर्लक्षाष्टचत्वारिंशत्सहस्रनदीपरिवृता सर्वाः संमील्य पञ्चलक्षद्वात्रिंशत्सहस्रनदीपरिवृता जंबूद्वीपप्रतीचीनजयन्ताभिधद्वाराधोजगती भित्त्वा पार्श्वयोः पद्मवरवेदिकावनखण्डपरिकरिता लवणजलधिं सङ्गच्छति । तथैव सीताऽपि पञ्चलक्षद्वात्रिंशत्सहस्रनदीपरिवृता प्राचीनलवणोदधिं सङ्गच्छति । ऐदंपर्यमादिदिक्षुर्ग्रन्थकार एव तत्त्वं स्पष्टीकरोति' । चउदससहस्स गुणिया अडतीस नइओ विजयमज्झिल्ला सीयोयाए निवडंति तहय सीयाइ एमेव ॥२४॥ चउदससहस्सगुणियत्ति चतुर्दशसहस्रगुणिता अडतीसनईओत्ति अष्टात्रिंशन्नद्यो विजयमज्झिल्लत्ति विजयमध्यवर्ति न्य: सीभोपाए सीतोदायां निवडंति निपतन्ति तहयत्ति तथा च सीयाइति एमेवत्ति एवमेव, प्रत्येकं चतुर्दशसहस्रगुणिता अष्टत्रिंशन्नद्यो नीलवन्निर्गतायां इति पदसंघटना । अयं भावार्थः । निषधनिर्गतायां निषधादिद्रहद्विभागीकुर्वन्त्यां दहेभ्यो वहन्त्यां प्रतीचीनविदेहवर्त्तिन्यां अष्टत्रिंशन्महानद्यो मिलन्ति, प्रत्येकं चतुर्दशसहस्रपरिवारास्तथाहि निषधनीलवन्नगयोरधः प्रत्येकं षट् षट् कुण्डानि, तेभ्यश्च, प्रत्येकं षट् षट् नद्यो निर्गतास्तथा च ताः सीतोदासीतयोः प्रत्येकं मिलन्ति षट् षट् । तथाहि गाहावतकुण्डाद् गाहावती निर्गता १ हूदावतकुण्डाद् हृदावती २ पङ्कावताभिख्यकुप्डात्पङ्कावती (वेगवती) ३ तप्तजलाभिधकुण्डात्तप्तजला ४ मत्तजलाह्यान्मराजला ५ उन्मत्ताभिधानात कुण्डादुन्मत्ता ६ क्षीरोदकुण्डात् क्षीरोदा ७ शीतश्रोतो ऽभिधानाच्छीतश्रोता ८ अन्तर्वाहिनो अन्तर्वाहिनी ९ ऊर्मिमाल्यभिधकुण्डादूमिमालिनी १० गम्भीरमालिनः कुण्डाद् गम्भीरमालिन्यभिधसरिन्निर्गता ११ फेनमाल्यभिधकुण्डान्निर्गता फेनमालिनी १२ । आसां देवींद्वीपादिवक्तव्यत्ता रोहितांशावद्वक्तव्या । नवरमभिलापभेदः । सर्वा अपि पद्मवरवेदिकावनखण्डपरिकन्तिाः पार्श्वयोः प्रत्येकमवसेयाः । तासु षट् सीतोदायां सङ्गच्छन्ते षट् च सीतायां, एवं च षट् तथा प्रतीचीनविदेहे षोडशविजयास्तेष्वष्टो दक्षिणस्यां अष्ट १. अत्र प्राचीनटोकानुसारेण-एवं व्याख्याने कृते विजयच्छेदिनीनां गाहावत्यादीनां षण्णां नदीनां प्ररुपणा उपेक्षिता भवत्यतस्तद्वर्णनाय वाचनान्तरेण द्विर्त.यप्रकारमाह-' इति अवतरणिका संभवति ।
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy