Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 99
________________ ६२ सटीकजंबूद्वीपसग्रहणी च श्रीः प्रतीतैवेति । सर्वेऽपि इमे देवा देव्य एकपल्यायुषः । शेषं रानधन्यादिकं प्राग्वत् । एता देव्यः भवनपतिनिकायजाता अवगन्तव्याः, व्यन्तरीणामुत्कर्षतोऽपि अर्धपल्यायुष्कत्वात् । एवमुक्तवक्ष्यमाणदेवानां वाच्यम् । इति चुल्लहिमवगिरिकूटै कादशकवर्णनम् । __ अथ शिखरिनग एकादश कूटानि तद्यथा सिद्धायतनकूटं १ :शिखरिकूट २ हैरण्यवतकटं ३ सुवर्णकुलाकूटं ४ सुरादेवी कटं ५ रक्तावर्तनकूटं ६ लक्ष्मीकुटं ७ रक्तावत्यावर्तनकूटं ८ इलादेवीकूट ९ ऐवतकटं १० तिगिञ्छिकूटं ११ च । शेषं सिद्धायतनादिप्राग्वत् । इति शिखरिकूटैकादशकवर्णनम् ॥ इत्येकषष्ठिसङ्ख्येषु गिरिषु कूटानां सर्वसङ्ख्या सप्तषष्ठयुत्तरचतुःशतमिता भवति ॥ अथ सर्वसङ्ख्या ज्ञापिका संक्षिप्तसङ्ख्याम त्रां गाथामाविष्करोति । चउसत्तअट्ठनवगेगारसकूडेहिं गुणह जहसंखं । सोलसदुदुगुणयालं दुवे य सगसट्ठीसयचउरो ॥१६॥ च उसत्तअनवगेगारसकूडे हिंति चतुःसप्ताष्टनवकैकादशटैः गुणहत्ति गुणयत जहसंखति यथा सख्यं सोलसदुदुगुणयालं दुवेयत्ति षोडशद्विद्वये कोनचत्वारिंशद्विकांश्च एवं गुणिते सगसटीसय चउरोत्ति सप्तषष्ठ्युत्तरचतुःशतसङ्ख्या कूटानां भवतीति शेषः । इति पदसंचालना क्रियान्वयः । अयं भावः । षोडशसङ्ख्यान् पर्वतान् प्रत्येकं चतुःकूटैर्गुणयत । तथा च सति चतुःषष्ठिसड्ख्या षोडशनगकटानां । द्वौ पर्वतौ यथासङ्ख्यं सप्त सप्त टैर्गुणयत तथा च चतुर्दश कहानि भवन्ति । द्वौ पर्वतावष्टभिरष्टभिः कटैः गुणयत एवं च षोडश कूटानि भवन्ति । एकोनचत्वरिंशत्सङ्खयान् गिरीन् नवनवकूटैर्गुणयत एकपञ्चाशदुत्तरत्रिशतसङ्खयकानि कुटानि भवन्ति । अत्र गुणयतेति प्रेरणायां पञ्चम्यन्तं क्रियापदं तच्च श्रोतृणां कथञ्चिदनुपयोगवर्शतः प्रमत्तासम्भवेऽपि वक्ता नोद्वेजितव्यं किन्तु मृदुमधुरमन आल्हाददायिहितकारिवचोभिः शिक्षानिबन्धनैः श्रोतृणां मनांसि प्रल्हाद्य यथायोग्यं सन्मार्गप्रवृत्तिस्तत्त्वविवृत्तिश्योपदेष्टव्येति प्रख्यापनार्थ यदवाच्यनेनैव भगवता प्रवचनोपनिषद्वेदिना हरिभद्रसूरिणाऽन्यत्र"अणुवत्तणाइ सेहा पाय पावंति जुग्गयं परमं । रयणंपि गुणुकरिसं उवेइ सोहं मणुगुणेणं ॥१॥ इन्थ य पमायखलिया पुवब्भासेण कस्स व न हुंति । जो तेऽवणेइ सम्म गुरुत्तणं तस्स सफलेति ॥२॥ को नाम सारहीणं सहज जो भद्दवाइणो दमए । दुढे वि य जो आसे दमेइं तं सारहिं बिंति ॥३॥ इत्यादि । तथा च सर्वसङ्ख्या मीलने सप्तषष्ठयुत्तरचतुःशतसङ्ख्यानि कूटानि भवन्ति । हृदयं यन्त्रकादवसेयं । तच्चेदं यन्त्रकम् ।

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154