Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 105
________________ ६८ सटीकजंबूद्वीपसङग्रहणी "वैताढयाद् दक्षिणस्यां चोत्तरस्यां लवणार्णवात् । चतुर्दशाधिकशतं योजनानि कलास्तथा । एकादशातीत्य मध्यखण्डेऽयोध्या पुरी भवेद्यतः ।” त्रिकलाधिकाष्टत्रिंशदुत्तरद्विशतयोजनमानो भरतमध्यखण्डविस्तारः । ततो वयोजनान्ययोध्याया आकृष्टानि, त्रिकालाधिकैकोनत्रिंशदुत्तरद्विशतयोजनान्यवशिष्टानि । ततः तत्सङ्ख्याधभागो वैताढ्याभिमुखः, अर्धेश्चलवणाम्बुध्यभिमुख अतस्तावत् सङ्ख्याकयोजनान्यन्तरम् । एवमैरवते उत्तराधैरवताभिलापेन वाच्यं परं स्वस्वविजयनामाभिध आद्यश्चक्री भवति यथा भरते भरताभिधः [ तथैरवत ] ऐरवताभिधश्चक्रीत्यादिः । एवं महाविदेहे द्वात्रिंशत्सङ्ख्यका विजयाः । तद्यथा-मेरोभद्रशालवनात् पूर्वपश्चिमयोर्दिशोः प्रत्येकं द्वौ द्वौ विजयौ सीतासीतोदान्तरितो एवं प्रतीच्यां षोडश, प्राच्यां च षोडश । एवं द्वात्रिंशत्सङ्ख्या विजयास्ते च प्रत्येकं द्वादशोत्तरद्वाविंशत्रिशतयोजनानि सार्धत्रिक्रोशाधिकानि विशालाः । द्विकलाधिकपञ्चशतद्विनवत्युत्तरषोडशसहस्रयोजनायताः । तन्नामानि चेमानि"कच्छः १ सुकच्छो २ विज्ञेयः महाकच्छस्तथाविधः ३ । कच्छावत्या ४ वर्त स्यान् ५ मङ्गलावर्त ६ एव च ॥१॥ पुष्कलः सप्तमो ज्ञेयः ७ विज्ञेयः पुष्कलावती ८ । वत्सः ९ सुवत्सो दशमः १० महावत्सः ११ ततः परं ॥२॥ वत्सावतो १२ च रम्यश्च १३ रम्यको १४ रमणीयकः १५ । मङ्गलावती १६ पद्मश्च (पक्ष्म) १७ सुपक्ष्मो (सुपद्मो) १८ विजयस्तथा ॥३॥ महापद्मः (महाक्ष्मः) १९ पद्मावती (पक्ष्मा) २० शङ्खश्च २१ नलिनस्तथा २२ । ___ कुमुदो २३ नलिनावती च २४ वप्रः २५ सुवप्र २६ एव च ॥४॥ महावप्रो २७ वप्रावत १२८ वल्गुरेवं २९ सुवल्गुका ३० । गन्धिलो ३० गन्धिलावतो ३२ । ___ द्वात्रिंशदेते विजयाः कच्छाद्याः सृष्टितः क्रमात् ॥५॥ अर्थताषां नगर्यभिधानानि "क्षेमा २ क्षेमपुरी २ चैवारिष्टा ३ रिष्टवती पुरी ४ खड्गी ५ चैव मजूषा ज्ञातव्या ६ पूस्तथौषधिः ७ ॥१॥ पुण्डरीकिणी ८ सुसीमा ९ कुण्डला १० चापराजिता ११ प्रभंकरा १२ च ज्ञातव्या अङ्कावत्यभिधा तथा १३ ॥२।। पद्मावती १४ शुभा १५ चैव नाम्नाऽतो रत्नसतञ्चया १६ अश्वपुरी १७ सिंहपुरी १८ ज्ञेया चैव महापुरी १९ ॥३॥ ततः स्याद्विजयपुरी २० ज्ञातव्या चापराजिता २१ तथा परा २२ स्याच्चाशोका २३ वीतशोका २४ ततः परम् ॥४॥ विजया २५ वैजयन्ती २६ च जयन्ती २७ चापराजिता २८ चक्रपरी २९ सङ्खपुरी ३० खतपुरी ३० बन्ध्या ३१ ऽयोध्या ३२ भवेत्तथा ॥५॥" एषु विजयनामसंज्ञाश्वक्रिणो भवन्ति यथा कच्छे कच्छ।भिधः । इति विजयाख्यमष्टमं द्वारम् ।।

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154