Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपसमहणी
७५
प्रत्येकं चउदसहिं चतुर्दशभिः सहस्सेहिंति सहस्रैः समगंति समकं वच्चंति व्रजन्ति जलहिमित्ति जलधौ । इति पदसञ्चारणा । अयं भावः । इह भरतक्षेत्रे गङ्गानाम्नी सिन्धुनाम्नी च प्रत्येक चतुर्दशसहस्रसङ्ख्याभिनंदीभिः परिवृत्ता लवणाब्धिं गच्छति । एवं च भरतक्षेत्रेऽष्टाविंशतिसहस्रसङ्ख्याः सरितो भवन्ति । एवमैरवतक्षेत्रे रक्तारक्तवत्यभिधाने प्रत्येकं चतुर्दशसहस्रसख्याभिर्नदीभिः परिवृत्ते लवणाम्भोधिं सङ्गच्छतः । एवं च तत्राऽष्टविंशतिसहस्रसख्या नद्यो भवन्ति । एवं बाह्यक्षेत्रयोः षट्पञ्चाशत्सहस्रसङ्ख्याः सलिला भवन्ति । इदमत्र हृदयम् । हिमवन्नगपद्मद्रहप्राचीनद्वाराद् गङ्गा नाम्नी नदी निर्गत्य प्राच्यां पञ्चशतयोजनानि पर्वतस्योपरि चक्रमित्वा गङ्गावर्तनकूटं प्रदक्षिणीकृत्य दक्षिणाभिमुखं भूत्त्वा सार्धत्रयकलाधिकपञ्चशतत्रयोविंशतियोजनानि दक्षिणस्यां पर्वतस्योपरि भ्रान्त्वा महद्घटान्निष्क्रामजलसमूहवत् मुक्तावलीहाराकारेण जिहिकया भूमौ सातिरेकं योजनानां शतमेकं निपतति । सा चेयं महती प्रणालिका वाजिकी अर्धयोजनायता सपादषड्योजनविशाला सहस्रधनुः पृथुला प्रसारितमकरमुखसंस्थान संस्थिता विद्यते तयैषा पतति । ततः गङ्गाप्रपातकुण्डे तच्च दशयोजनावगाढं षष्ठियोजनायतविशालं किश्चिदूननवत्युत्तरशतयोजनपरिक्षेपं तथाहुः क्षमाश्रमणपादाः बृहत्क्षेत्रसमासे -
“ आयामो विखंभो सद्धिं कुंडस्स जोयणा हुँति ।
नउयसयं किंचूर्ण परिही दस जोयणो गाहो ॥१॥ उमास्वातिवाचककृतजंबूद्वीपसमासे करणविभावनायां च -
___" मुले पण्ण संजोअणवित्थारो उवरि सदा" ।
इति विशेषोऽस्ति । नानाविधकमलसंकलितं परितः पद्मवरवेदिका वनखण्डपरिकरितं वजस्तंभसतोरणरत्नालंबनबाहाढ यरैरूप्यफलकाञ्चितसोपानश्रेणिभिः प्राचीप्रतीच्यवाचीषु विराजितं वृत्ताकारं कुण्डं गङ्गाप्रपाताभिधमस्ति । तन्मध्ये गङ्गाख्यो द्वीपोऽस्ति अष्टयोजनायतविशाल: जलाद् द्विक्रोशोच्चः सर्ववज्ररत्नमयः परितः पद्मवरवेदिकावनखण्डपरिकरितः वृत्ताकारोऽस्ति । " गङ्गाद्वीपश्च भात्यस्मिन् द्वौ क्रोशावुच्छ्रितो जलादष्टौ च योजनान्येषः विष्कम्भायाममानतः ॥" ... तत्र च द्वीपे एकक्रोशायतं अर्धक्रोशविशालं चत्वारिंशदुत्तरचतुर्दशशतधनुरुच्चं गङ्गादेवीशय्यासमन्वितं गङ्गाख्यदेवीभवनं श्रीदेवीभवनसन्निभमस्ति । तद्गङ्गाप्रपातकुण्डदक्षिणद्वारान्निर्गत्येयं गङ्गोत्तरार्धभरतमध्यगामिनी सती सप्तसहस्रसङ्ख्यानदीभिरन्विता खण्डप्रपाताऽधो निर्गत्य वैताढयं भिन्वा दक्षिणार्धभरतमागच्छति, आगच्छन्ती च दक्षिणार्धभरतमध्ये पुनः सप्तसहस्रैः सडख्याभिनदीभिः संयुज्यते । एवं चतुर्दशसहस्रनदीपरिवृत्ता प्राच्या वलित्वा जम्बूजगती भित्त्वा तदधो निर्गत्य प्राचीनलवणाब्धि सङ्गच्छति । एतस्या वक्ष्यमाणानां च सर्वासां महानदीनां उभयोः पाचयोर्वेदिकावनखण्डावभिहितौ । तथोक्तं जम्बूद्वीपप्रज्ञप्तिसूत्रे गङ्गावर्णने

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154