Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 111
________________ सटीक जंबूद्वीपसङ्ग्रहणी महाहिमवति पर्वते महापद्मनामा हृदः पद्मद्रहाद्विगुणमानो वाच्यस्तथाहि द्वे सह योजनानामायत एकं सहस्त्र विशाल: दशयोजनावगाढः । तस्य च दक्षिणस्यां एकं उत्तरस्यां चैकमेत्रं द्वे द्वारे तत्रौवीस्थं मेरुतुखं द्वारं विशाला शीतिभागहीनः दाक्षिणात्यं च तदर्धमानं तथा च मेरुमुखं द्वारं पञ्चविंशतियोजनविशालं दाक्षिणात्यं च सार्घद्वादशयोजन विशालं, षट्परिक्षेपोपशोभितकमलादिसख्यापूर्ववत् । विष्कम्भायामादिविचारः पूर्वतो द्विगुणमानो वाच्यः । नवरमत्र ह्रियो देव्या निवासः । इति महाहिमवन्नगहृदस्वरूपम् । निषधगिरौ तिगिच्छिनामा द्रहः महापद्माद् द्विगुणमानो वाच्यः तथाहि चतुः सहस्रयोजनायत [ द्विसहस्र ] विशाल:, दशयोजनावगाढः । अस्यापि द्वे द्वारे, तत्र दाक्षिणात्यं पञ्चविंशतियोजनमानं उदीचीनं च पश्चाशद्योजनमानं, विशेषवर्णनं पूर्ववत् कमलादीनां च पूर्वस्माद् द्विगुणपरिमाणं, नवरं धीदेव्या आवास: । इति तिमिगच्छिद्रहस्वरूपम् । नीलवति केसरिनामा द्रहः तिगिच्छिवज्ज्ञेयः अत्र कीर्त्तिदेव्या आवासः । केसरा-लीपरिष्कृतपत्रालङ्कृत इति विशेषः । इति केसरिद्रहवर्णनम् । रूपिणि महापुण्डरीकनामा दह: महापद्मवदूवाच्यः । इह च बुद्धिदेव्या आवास: । इति महापुण्डरीकद्रहवर्णनम् । शिखरिणि च पुण्डरीकाभिधो द्रहः पद्मववाच्यः । इह च लक्ष्मीदेव्या आवासः । इति पुण्डरीकद्रहवर्णनम् । इमाः सर्वाः षडपि देव्यः भवनपतिनिकायस्य पत्यायुष्का अपरिगृहीता ज्ञेया: तत्कारणं प्राग्वत् । इति पर्वतद्रहषट्कवर्णनम् । दश च भूमिद्रहास्तथाहि निषधपर्वतनिर्गच्छन्ती सीतोदा सरित् प्रथमं यथाक्रममेतेषु पञ्चसु द्रहेषु निपतति तद्यथा ७४ am “ निषधाभिध आद्यः स्यात् देवकुर्वभिधोऽपरः । सुरप्रभाभिधश्च स्यात्तुर्यो हि सुलसाभिधः ॥ विद्युत्प्रभाभिघो ज्ञेयः पञ्चमः क्रमतो द्रहः । एवं नीलवतो निर्गच्छन्ती सीताऽपि क्रमशो द्रहेष्वेषु पञ्चसु निपतति तद्यथा" नीलवत्संज्ञितो ज्ञेय उत्तरकुरुनामकः । चन्द्र ऐरवतो ज्ञेयः माल्यवांश्च तथापरः ॥ "" एते च याम्योत्तरायताः पूर्वपश्चिम विस्तृताश्च पञ्चशतयोजनानि विस्तृताः सहस्रयोजनायामाश्च तथाहु: - - “सीयासीओयाणं बहुम इमे हुंति पंचहरयाओ, उत्तरदाहिणदीहा पुग्वावरवित्थडाइणमो । " इति भूमिद्रहदशक निरूपणम् । सर्वान् सम्मील्य षोडश द्रहाः स्युः । इति द्रहाख्यं नवमं द्वारम् । अथ दशमं सरित्संङख्याद्वारमाह । गंगासिन्धुरता - रत्तवई चउनईओ पत्तेयं । चउदसहिं सहस्सेहिं समगं वच्चंति जलहिम्मि ॥ २१ ॥ गंगासिन्धुरतारत्तवईचउत्ति गङ्गासिन्धुरक्तारक्तवत्यश्चतस्रः नईओत्ति नद्यः पत्तयंति

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154