________________
सटीक जंबूद्वीपसङ्ग्रहणी
महाहिमवति पर्वते महापद्मनामा हृदः पद्मद्रहाद्विगुणमानो वाच्यस्तथाहि द्वे सह योजनानामायत एकं सहस्त्र विशाल: दशयोजनावगाढः । तस्य च दक्षिणस्यां एकं उत्तरस्यां चैकमेत्रं द्वे द्वारे तत्रौवीस्थं मेरुतुखं द्वारं विशाला शीतिभागहीनः दाक्षिणात्यं च तदर्धमानं तथा च मेरुमुखं द्वारं पञ्चविंशतियोजनविशालं दाक्षिणात्यं च सार्घद्वादशयोजन विशालं, षट्परिक्षेपोपशोभितकमलादिसख्यापूर्ववत् । विष्कम्भायामादिविचारः पूर्वतो द्विगुणमानो वाच्यः । नवरमत्र ह्रियो देव्या निवासः । इति महाहिमवन्नगहृदस्वरूपम् । निषधगिरौ तिगिच्छिनामा द्रहः महापद्माद् द्विगुणमानो वाच्यः तथाहि चतुः सहस्रयोजनायत [ द्विसहस्र ] विशाल:, दशयोजनावगाढः । अस्यापि द्वे द्वारे, तत्र दाक्षिणात्यं पञ्चविंशतियोजनमानं उदीचीनं च पश्चाशद्योजनमानं, विशेषवर्णनं पूर्ववत् कमलादीनां च पूर्वस्माद् द्विगुणपरिमाणं, नवरं धीदेव्या आवास: । इति तिमिगच्छिद्रहस्वरूपम् । नीलवति केसरिनामा द्रहः तिगिच्छिवज्ज्ञेयः अत्र कीर्त्तिदेव्या आवासः । केसरा-लीपरिष्कृतपत्रालङ्कृत इति विशेषः । इति केसरिद्रहवर्णनम् । रूपिणि महापुण्डरीकनामा दह: महापद्मवदूवाच्यः । इह च बुद्धिदेव्या आवास: । इति महापुण्डरीकद्रहवर्णनम् । शिखरिणि च पुण्डरीकाभिधो द्रहः पद्मववाच्यः । इह च लक्ष्मीदेव्या आवासः । इति पुण्डरीकद्रहवर्णनम् । इमाः सर्वाः षडपि देव्यः भवनपतिनिकायस्य पत्यायुष्का अपरिगृहीता ज्ञेया: तत्कारणं प्राग्वत् । इति पर्वतद्रहषट्कवर्णनम् । दश च भूमिद्रहास्तथाहि निषधपर्वतनिर्गच्छन्ती सीतोदा सरित् प्रथमं यथाक्रममेतेषु पञ्चसु द्रहेषु निपतति तद्यथा
७४
am
“ निषधाभिध आद्यः स्यात् देवकुर्वभिधोऽपरः । सुरप्रभाभिधश्च स्यात्तुर्यो हि सुलसाभिधः ॥ विद्युत्प्रभाभिघो ज्ञेयः पञ्चमः क्रमतो द्रहः ।
एवं नीलवतो निर्गच्छन्ती सीताऽपि क्रमशो द्रहेष्वेषु पञ्चसु निपतति तद्यथा" नीलवत्संज्ञितो ज्ञेय उत्तरकुरुनामकः । चन्द्र ऐरवतो ज्ञेयः माल्यवांश्च तथापरः ॥
""
एते च याम्योत्तरायताः पूर्वपश्चिम विस्तृताश्च पञ्चशतयोजनानि विस्तृताः सहस्रयोजनायामाश्च
तथाहु:
-
-
“सीयासीओयाणं बहुम इमे हुंति पंचहरयाओ, उत्तरदाहिणदीहा पुग्वावरवित्थडाइणमो । " इति भूमिद्रहदशक निरूपणम् । सर्वान् सम्मील्य षोडश द्रहाः स्युः । इति द्रहाख्यं नवमं द्वारम् ।
अथ दशमं सरित्संङख्याद्वारमाह ।
गंगासिन्धुरता - रत्तवई चउनईओ पत्तेयं ।
चउदसहिं सहस्सेहिं समगं वच्चंति जलहिम्मि ॥ २१ ॥
गंगासिन्धुरतारत्तवईचउत्ति गङ्गासिन्धुरक्तारक्तवत्यश्चतस्रः नईओत्ति नद्यः पत्तयंति