Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपस ग्रहणी
च सम्मील्य सपाददशयोजनान्युच्चानि । तेषामपिकर्णिकाभुवनप्रमुखं पूर्वमानादर्धार्धमानं वक्तव्यं । तेषु च श्रियो देव्या आभूषणादिवस तवतिष्ठते । स्वरूपं च स्थापनातो यन्त्रकाचावसेयम् । इति प्रथमवलयम् ।
द्वितीयपरिक्षेपे मूलकमलापश्चिमोत्तर स्यां दिशि वायवीकोणे, उत्तरस्यां दिशि, पूर्वोत्तरस्यामैशान्यां दिशि च सामानि रूदेवीनां चतुःसहस्रङ्ख्यानि कमलानि । प्राच्यां चत्वारि चतुर्महत्तरिक - गुरुस्थानीयदेवीनां कमलानि, दक्षिणपूर्वस्यां आग्नेयाकोणे इत्यर्थः, अभ्यन्तरवार्षदानां अष्टस्रहसदेवानां तावन्ति कमलानि । दक्षिणस्यां च मध्यपार्षदानां दशसहस्रदेवानां दशसहस्राणि कमलानि । दक्षिणप्रतीच्यां नैऋयामित्यर्थः, बाह्यपार्षदानां द्वादशसहस्रमया देवानां द्वादशसहस्राणि कमलानि । प्रत च्यां च सप्तकटकनायकानां सप्न का लानि । सर्वाण संमाल्य द्वितायवलये एकादशोत्तरचतुस्त्रिंशत्महस्रानि कमलानि । इति द्वितायवलयम् ।
अथ तृतीयपरिधी प्रत्येकं चतुर्दिक्षु चत्वारि चत्व रि सहस्राणि कमलानि आत्मरक्षकदेवानां भवन्ति । सर्वानि सम्मील्य षोडशसहस्राणि आत्मरक्षकदेवानां कमलानि भवन्ति । इति तृतीयवल्यम् ।
चतुर्थाभ्यन्तरवलये द्वात्रिंशल्लक्षाभ्यन्तराभियोगिकदेवानां तावन्ति कमलानि तथाहि प्रत्येक चतसृषु विदिक्षु च चत्वारि चत्वारि लक्षाणि कमलानि । पिण्डितानि सर्वाणि च तानि द्वात्रिंशल्लक्ष णि भवन्ति । इति चतुर्थव लयम् ।
पञ्चममध्यवलये चत्वाशिल्लक्षमध्याभियोगिकदेवानां तावन्ति कमला नि तथाहि प्रत्येकं चतसृषु विदिक्षु च पञ्च पञ्च लक्षाणि कमलानि । पिण्डितानि तानि च चत्वारिंशल्लक्षाणि यन्ते इत्यर्थः । इति पञ्चमं वलयम् ।
षष्ठबाह्यवलयेऽष्टचत्व शिल्लक्षबाह्याभियोगि रुदेवानां तावन्ति कमलानि तथाहि प्रत्येकं चतसृषु दिक्षु चतसृषु विदिक्षु च षट् षट् लक्षाणि कमला नि तानि च अष्टच वाशिल्लक्षाणि जायन्ते । इति षष्ठं वलयम् । सर्वाणि सम्मोल्य विंशतिलक्षाधिकैककोटिसङ्ख्या नि आभियोगिकदेवानां कमलानि मूलकमलेन सहितानि तानि ञ्च शत्सहस्रैकशतविंशत्यधिकैकशतविंशति रक्षाणि कमलानि भवन्ति तथा चोक्त
'कोटये का विंशतिर्लभा पद्मानां सर्वसङख्यया सहस्र णि च पञ्चाशच तं विंशतिसंयुतम् ॥१॥
सवांणीमति शाश्वत नि पृथ्वीकायरूपाणि कमलाकृतितया कमलतया वर्ण्यन्ते । एतानि उत्तरोत्तर अर्धार्धमानानि यदुक्त " क्रमाद(र्धर्धमानाजाः परिज्ञेया सर्वेऽप्यमा” एवमन्यद्रहेष्वपि कमलपरिवारो वाच्यः ।

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154