Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 103
________________ ६६ अथ मागधादितीर्थसङ्क्षयादिदर्शयिषुस्तीर्थस्थाननामपूर्विका तीर्थसङ्ख्यां दिशत्येकगाथया । मागहवरदामपभास तित्थ विजसु एरवय भरहे । चतीसा तिहि गुणिया दुरुत्तरस्यं तु तित्थाणं ॥ १८ ॥ मागधवरदामप्रभासाख्यानि त्रीणि तीर्थानि प्रत्येकं द्वात्रिंशत्सु विजयेषु ऐरवते भरते चैषा चतुशिद्विजय सङख्या त्रिभिर्गुणिता द्वयुत्तरशतं तीर्थानां भवति । इदमत्र हृदयं भरतैरवद्विदेहृद्वात्रिंशद्विजयाश्चेत्येवं चकिचतुस्त्रिंशत् क्षेत्राणि । तत्र भरतैरवनयोगङ्गा सिन्धुरक्तारक्तवत्योऽम्भोधि सङ्गच्छन्ति यत्र, तथा द्वात्रिंशविजयनद्यः सीतास तोदे च सङ्गच्छन्ति यत्र तत्सागरसङ्गमाख्यं उत्तमं स्थानमभिधीयते । तत्र दक्षिणार्धभरते प्राचीनं मागाधाख्यं तीर्थं १ प्रत्तीचीनं च प्रभासाख्यं २ तयोरन्तराले वरदामाख्यं ३ स्वस्वनामाङ्कितदेवाधिष्ठितत्वेनैतानि शाश्वताभिधानानि । तेषां च देवानां स्वस्वतीर्थतः द्वादशसु योजनेषु लवणाम्बुधौ राजधान्यो विभ्राजन्ते । अमून् रथनाभिस्पृगंभ स्थित्वा कृताष्टमतपश्चिकी स्वाभिधानलक्षितशरमुदधौ मुक्त्वा जयति । एवं त्रीणि तोर्थानि तथैवोतरार्धैवत विजयादिषु त्रयस्त्रिंशत्सु प्रत्येकं त्रीणि त्रीणि तीर्थानि । सर्वसंमीलने यधिकशतसङ्ख्या तीर्थानां भवति ॥ १८ ॥ इति षष्ठं तीर्थद्वारम् ॥ 1 सटीकजंबूद्वीपसग्रहणी wwwwwwwwwww wwwwwwww अथ सप्तमं श्रेणिद्वारमेकयार्यया दर्शयति । विज्जाहर आभियोगी य सेढीओ दुन्नि दुन्नि वेयड्ढे । इयचउगुण चउतीसा छत्तीससयं तु सेढीणं ॥ १९ ॥ विद्याधरामियोगिकानां श्रेण्यो द्वे द्वे वैताढ्य इति चतुर्गुणाश्चतुस्त्रिंशाः षट्त्रिंशदुत्तरं शतं तु श्रेणीनां भवति । अयं भावः । वैताढ्यनगस्य भूभागादुपरि दशयोजनेषु गतेषु दक्षिणोत्तरपार्श्वयोः दशयोजनविशाले वैताढ्यसमायाते विद्याधराणां द्व श्रेणी स्तः, परितः पद्मवर वेदिकावनखण्डपरिकरिते रत्नबद्ध महीत । तत्र दाक्षिणात्यायां विद्याधरश्रणौ विद्याधराणां गगनवल्लभप्रमुखानि पञ्चाशन्महानगराणि सन्ति । उदोचीन्यां च विद्याधरश्रेणौ रथनूपुरचकवालादीनि षष्ठिसङ्ख्यानि महानगराणि । अयं जंबूद्वीपप्रज्ञप्त्यभिप्रायः ऋषभचरित्रादौ तु दक्षिणश्रेण्यां रथनूपुर चक्रवालादीनि पञ्चाशन्नगराणि, उत्तरश्रेण्यां तु गगनवल्लभादीनि षष्ठिरिति उक्तमिति ज्ञेयम् । द्वयोः श्रेण्योर्नगर मीलने दशोत्तरैकशतसङ्ख्यानि नगराणि भवन्ति । तेषु राज्यपरिकरयुता महावलवन्तो राजानो भवन्ति । उत्तुङ्गरत्नप्रासादशादिष्वेतेषु वसन्तो विद्याधरेश्वराः स्वर्गं तृणायापि न मन्यन्ते । अथ च विद्याधर श्रेणी भूभागादुपरि दशयोजनेषु गतेषु आभियोगिकदेवानां श्रण्यौ स्तस्त अपि दश दशयोजन विशाले वैताढ्य - समायते परितः पद्मपरवेदिकावनखण्डपरिकरिते । तत्र व्यन्तरदेवदेवाङ्गनासौधर्मलोकपालाज्ञाकारि किङ्करदेवानां बहव आवासाः । तथाहुः क्षमाश्रमणपादाः

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154