Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 101
________________ ६४ सटीकजंबूद्वीपसङ्ग्रहणी W M ५५ घुित्प्रभगजदन्ते ९ ५९ सुरगिरौ ५६ निषधवर्षधरे ९ ६० चुल्लहिमवद्वर्षवरे ५७ नोलवद्वर्षधरे ९ ६१ शिखरि वर्षधरे ५८ माल्यवद्गजदन्ते ९ सर्वसङ्ख्या पर्वतानां ६१, कटानां ४६७ इति गिरिकूटानि अथ भूमिकूटानि दर्शयत्येकगाथयाचउतीसं विनयेसु उस्सहकूडा अट्ठमेरुजंबुम्मि । अट्ठय देवकुराए हरिकूड हरिस्सहे सट्ठी ॥ १७ ॥ चतुस्त्रिंशत्सङ्ख्यविजयेषु चक्रीजेतव्येषु ऋषभकटानि, अष्ट मेगै, अष्ट जंबूवृक्षे, अष्टौ च देवकुरुषु हरिकूटहरिस्सही च षष्ठिः । अयं भावः । भरतादिषु चतुस्त्रिंशत्सु विजयेषु प्रत्येकमेककं ऋषभकूटं, तत्र भरते गङ्गाप्रपातकण्डप्रतीचीनं सिन्धुप्रपातकुण्डप्राचीनं तयोरन्तरे इत्यर्थः । चुल्लहिम वहे क्षणपार्श्वनितम्बान्तिकं ऋषभसंज्ञं कूटमस्ति । तच्चाष्टौ योजनान्युच्च द्वे योजने महीमग्नं चारुगालाङ्गलसंस्थितं पञ्चविंशतियोजनानि साधिकानि साधिकानि मूलपरिक्षेपोऽस्य, साधिकानि तानि अष्टादश च मध्ये, साधिकानि द्वादश शिरसि । द्वादशयोजनान्यस्य मूल व्यासायामो, मध्येऽष्टौ योजनानि, मूर्ध्नि चत्वारि । तानि मतान्तरे सप्तत्रिंशद्योजनानि साधिकानि मूलपरिक्षेपः, साधिकानि तानि पञ्चविंशतिर्मध्ये, साधिकानि द्वादश शिरसि । इदं च मतद्वयमपि जंबूद्वीपप्रज्ञप्तिसूत्रे । ननु सूत्रशब्दव्याख्यानावसरे प्रागेव सूक्तसूतादिव्युत्पतिविचारप्रस्तावे श्रतस्य सर्वमूलकत्वमावेदितं एवं च सति तुल्यातुल विकलविमलकेवलालोकभाजां सर्वेषामप्यर्हतामेकमेव मतं तत्कथं जंबूद्वीपप्रज्ञप्तिसूत्रादौ मतान्तरभेदः समुपलभ्यत, इति चेत् , सत्यं दुर्भिक्षदूषितकालविस्मृतिश्रुतस्य छद्मस्थिकोपयोगेन सञ्चयने वचनाभेदस्य सहेतुकत्वात् । तथाहि देवद्धिंगणिस्कन्दिलाचार्यावसरे दुर्भिक्षपीडितकालत्वात् गणनाभावतः साधुसाध्वीनां श्रुतं विस्मृतिपथमयात् ततः सजाते सुभिक्षे वल्लभ्यां मथुरायां च विस्मृतसूत्रार्थघटनाकृते सङ्घस्य सङ्गमो बभूव । तत्र वल्लभ्यां मिलिते सङ्घ क्षमाश्रमणोपपदाः श्रमणादिचतुर्विधसङ्घाधिपतयः सुविहितसुगृहीतनामधेया देवधिंगणयोऽभूवन् । मथुरायां च सङ्गते विषमविषयाशीविषविषविलुप्त जीवनजन्तुजातजाङ्गुलीमन्त्रायमाणा आचार्यप्रवराः स्कन्दिलाचार्या अग्र्या बभूवुः । ततस्तयोः सङ्घयोविस्मृतश्रुतस्मरणे क्वचित् क्वचिद्वाचनाभेदः समजायत, भवेदेव विस्मृत चरणे द्वयोरपि पुरुषयोर्वस्तु प्रति विसंवादः । नन्वन्त्वेवं कथमे कस्य महतः प्रत्ययमवष्टभ्यैक एव पाठो नोररीकृत इति चेन्मैवं छमस्थधिया निर्णेतुमशक्यत्वेन आज्ञाव्याकोपस्य महापायनिबन्धनत्वमिति मन्यमानानां पापभीरूणां गीतार्थानां नहि नामानाभोगछमस्थस्येह कस्यचिन्नास्ति यस्माज्ज्ञानावरणं

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154