________________
६६
अथ मागधादितीर्थसङ्क्षयादिदर्शयिषुस्तीर्थस्थाननामपूर्विका तीर्थसङ्ख्यां दिशत्येकगाथया । मागहवरदामपभास तित्थ विजसु एरवय भरहे । चतीसा तिहि गुणिया दुरुत्तरस्यं तु तित्थाणं ॥ १८ ॥
मागधवरदामप्रभासाख्यानि त्रीणि तीर्थानि प्रत्येकं द्वात्रिंशत्सु विजयेषु ऐरवते भरते चैषा चतुशिद्विजय सङख्या त्रिभिर्गुणिता द्वयुत्तरशतं तीर्थानां भवति । इदमत्र हृदयं भरतैरवद्विदेहृद्वात्रिंशद्विजयाश्चेत्येवं चकिचतुस्त्रिंशत् क्षेत्राणि । तत्र भरतैरवनयोगङ्गा सिन्धुरक्तारक्तवत्योऽम्भोधि सङ्गच्छन्ति यत्र, तथा द्वात्रिंशविजयनद्यः सीतास तोदे च सङ्गच्छन्ति यत्र तत्सागरसङ्गमाख्यं उत्तमं स्थानमभिधीयते । तत्र दक्षिणार्धभरते प्राचीनं मागाधाख्यं तीर्थं १ प्रत्तीचीनं च प्रभासाख्यं २ तयोरन्तराले वरदामाख्यं ३ स्वस्वनामाङ्कितदेवाधिष्ठितत्वेनैतानि शाश्वताभिधानानि । तेषां च देवानां स्वस्वतीर्थतः द्वादशसु योजनेषु लवणाम्बुधौ राजधान्यो विभ्राजन्ते । अमून् रथनाभिस्पृगंभ स्थित्वा कृताष्टमतपश्चिकी स्वाभिधानलक्षितशरमुदधौ मुक्त्वा जयति । एवं त्रीणि तोर्थानि तथैवोतरार्धैवत विजयादिषु त्रयस्त्रिंशत्सु प्रत्येकं त्रीणि त्रीणि तीर्थानि । सर्वसंमीलने यधिकशतसङ्ख्या तीर्थानां भवति ॥ १८ ॥ इति षष्ठं तीर्थद्वारम् ॥
1
सटीकजंबूद्वीपसग्रहणी
wwwwwwwwwww
wwwwwwww
अथ सप्तमं श्रेणिद्वारमेकयार्यया दर्शयति ।
विज्जाहर आभियोगी य सेढीओ दुन्नि दुन्नि वेयड्ढे । इयचउगुण चउतीसा छत्तीससयं तु सेढीणं ॥ १९ ॥
विद्याधरामियोगिकानां श्रेण्यो द्वे द्वे वैताढ्य इति चतुर्गुणाश्चतुस्त्रिंशाः षट्त्रिंशदुत्तरं शतं तु श्रेणीनां भवति । अयं भावः । वैताढ्यनगस्य भूभागादुपरि दशयोजनेषु गतेषु दक्षिणोत्तरपार्श्वयोः दशयोजनविशाले वैताढ्यसमायाते विद्याधराणां द्व श्रेणी स्तः, परितः पद्मवर वेदिकावनखण्डपरिकरिते रत्नबद्ध महीत । तत्र दाक्षिणात्यायां विद्याधरश्रणौ विद्याधराणां गगनवल्लभप्रमुखानि पञ्चाशन्महानगराणि सन्ति । उदोचीन्यां च विद्याधरश्रेणौ रथनूपुरचकवालादीनि षष्ठिसङ्ख्यानि महानगराणि । अयं जंबूद्वीपप्रज्ञप्त्यभिप्रायः ऋषभचरित्रादौ तु दक्षिणश्रेण्यां रथनूपुर चक्रवालादीनि पञ्चाशन्नगराणि, उत्तरश्रेण्यां तु गगनवल्लभादीनि षष्ठिरिति उक्तमिति ज्ञेयम् । द्वयोः श्रेण्योर्नगर मीलने दशोत्तरैकशतसङ्ख्यानि नगराणि भवन्ति । तेषु राज्यपरिकरयुता महावलवन्तो राजानो भवन्ति । उत्तुङ्गरत्नप्रासादशादिष्वेतेषु वसन्तो विद्याधरेश्वराः स्वर्गं तृणायापि न मन्यन्ते । अथ च विद्याधर श्रेणी भूभागादुपरि दशयोजनेषु गतेषु आभियोगिकदेवानां श्रण्यौ स्तस्त अपि दश दशयोजन विशाले वैताढ्य - समायते परितः पद्मपरवेदिकावनखण्डपरिकरिते । तत्र व्यन्तरदेवदेवाङ्गनासौधर्मलोकपालाज्ञाकारि किङ्करदेवानां बहव आवासाः । तथाहुः क्षमाश्रमणपादाः