________________
सटीकजंबूद्वीपसङग्रहणी
६७
"विज्जाहरसे ढीओ उड्ढं गंतूण जोयणं दसओ । दसजोयण-पिहलाओ सेढीओ सक्करायस्स ॥ सोमजमका इयाणं देवाणं वरुणका इयाणंच । वेसमणकाइयाणं देवाणं आभियोगाणं ॥
ते च रत्नमया बाह्यता वृत्ताः अभ्यन्तरतश्च समचतुरस्राः अप्सरःसमूहसंकीर्णाः । एवमेक स्मन् वैताढये चतस्रः श्रेण्यो द्वे विद्याधराणां दाक्षिणात्योदीचीने, द्वे चाभियोगिकानां दाक्षिणात्योदी ने च । तथैव शेषेषु त्रयस्त्रिंशत्सु वैताढयेषु प्रत्येकं चतस्रः चतस्रः श्रेणयः । सर्वसम्मीलने षट्त्रिंशदुत्त कशत सङ्ख्याः श्रेणयो भवन्ति । इति सप्तमं श्रेणिद्वारम् ।
___ अथ अष्टमं विजयद्वार दर्शयति गाथापूर्वार्धेन ।
चक्की जेयव्याई विजयाई इत्थ हुंति चउतीसा । चक्रिजेतव्या विजया ( नपुंसकत्वं प्राकृतत्वात् ) अत्र भवन्ति चतुस्त्रिंशत्सङख्याः । अयं भावः । षट्खण्डसाधकाः चतुर्दशरस्नधारकाः चतुनिकायदेवरत्नप्रभानरकगत्यागताः षोडशसहस्रदेवसेव्याः चक्रवत्तिनो भवन्ति । तत्र षटखण्डाः पूर्वप्रतिपादितस्वरूपाः । चतुर्दशरत्नानि चेमानि । धनुःप्रमाणप्रमितं शत्रशिरच्छेदकं चक्रं नाम प्रथमं रत्नम् ।१। चक्रिहस्तस्पर्शाद् द्वादशयोजनविस्तारि वैताढयोत्तर दिग्निवासिम्लेक्षदेवमेवनिरोधकं धनुःप्रमाणप्रमितं छत्रं नाम द्वितीयम् ।२। विषमक्षितिसमकारक सहस्रयोजनाधोभूमिविदारकं धनुःप्रमाणमितं दण्डाख्यं तृतीयम् ।३। चक्रीहस्तस्पर्शादद्वादशयोजनविस्तारि प्रभातोप्त सन्ध्योपभोग्यशालिसम्पादकं चर्मसंज्ञं चतुर्थ द्वहस्तमानमितम् । द्वात्रिंशदङ्गुलमान रणाग्रात्यन्तशक्तिमत् खड्गाख्यं पञ्चमम् ।५। तिमिस्राखण्डप्रपातामंडल कारकं जात्यसुर्वणमयं चतुर गुलायतं काकिण्यभिधं षष्ठम् ।६। अधोभागस्थितचर्मरत्नोपरिभागस्थितछत्ररत्नमध्यस्तम्बे स्थापितं सत् द्वादशयोजनप्रकाशकं चतुरङ्गलायतं द्वगुलविशालं मण्याख्यं सप्तमं हस्ते शिरसि वा बद्धं समग्रव्याधिनाशकम् ।७। एतान्येकेन्द्रियरत्नानि आत्माङ्गुलमानमितानि । शान्ति कर्मकारकं पुरोहिताख्यमष्टमम् ।८। महापराक्रमवन्ती अश्वगजाख्ये नवमदशमे ।९-१०। गङ्गासिन्ध्वोः प्रथमपावस्थचतुःखण्डसाधकं सेनापनिसंज्ञं एकादशमम्।११। गृहचिन्तकं गृहपत्याख्यं द्वादशमम् ।१२। गेहादिरचयितृवैता ढयगुहास्थोन्मगानिम्नगयोनद्याः पुलबन्धकं वाक्याख्यं त्रयोदशमम् ।१३। अत्यन्तरूपवत् चक्रीभोगयोग्यं स्त्रीसंज्ञं चतुर्दशमम् ।१४। एषु चक्रछत्रखड्गदण्डाख्यानि चत्वार्यायुधशालायां जायन्ते, मणिकांकिणीचर्माख्यानि त्रीणि भाण्डागारे उत्पद्यन्ते, गजाश्वौ वैताढये सम्पद्यते । एतानि च प्रत्येकं सहस्रदेवाधिष्ठितानि तथा च चतुर्दशसहस्रदेवाः । चक्रिबाहुयुगलं च द्विसहस्रदेवाधिष्ठितं तथा च सर्वे सम्मील्य षोडशसहस्र देवाश्चक्रिणां सेवन्ते । एतादृशच क्रिजेया विजया भवन्ति । तत्र भरतैरवद्विजयौ वर्णितस्वरूपी तयोरयोध्यानाम्न्यौ पुर्यों स्तश्चक्रिणां वासयोग्ये । तदर्णनं हि भरते तावत् दक्षिणार्धभरतमध्यखण्डे द्वादशयोजनायता नवयोजनविस्तृता विनिताऽपरसंज्ञायोध्याभिधा नगरी। सा च लवणाम्बुघेरेकादशकलाधिकचतुर्दशैकशतयो जनान्तरिता तावद्योजनैश्च वैताढ्यनगादन्तरिता उक्तञ्च