________________
६२
सटीकजंबूद्वीपसग्रहणी
च श्रीः प्रतीतैवेति । सर्वेऽपि इमे देवा देव्य एकपल्यायुषः । शेषं रानधन्यादिकं प्राग्वत् । एता देव्यः भवनपतिनिकायजाता अवगन्तव्याः, व्यन्तरीणामुत्कर्षतोऽपि अर्धपल्यायुष्कत्वात् । एवमुक्तवक्ष्यमाणदेवानां वाच्यम् । इति चुल्लहिमवगिरिकूटै कादशकवर्णनम् । __ अथ शिखरिनग एकादश कूटानि तद्यथा सिद्धायतनकूटं १ :शिखरिकूट २ हैरण्यवतकटं ३ सुवर्णकुलाकूटं ४ सुरादेवी कटं ५ रक्तावर्तनकूटं ६ लक्ष्मीकुटं ७ रक्तावत्यावर्तनकूटं ८ इलादेवीकूट ९ ऐवतकटं १० तिगिञ्छिकूटं ११ च । शेषं सिद्धायतनादिप्राग्वत् । इति शिखरिकूटैकादशकवर्णनम् ॥
इत्येकषष्ठिसङ्ख्येषु गिरिषु कूटानां सर्वसङ्ख्या सप्तषष्ठयुत्तरचतुःशतमिता भवति ॥ अथ सर्वसङ्ख्या ज्ञापिका संक्षिप्तसङ्ख्याम त्रां गाथामाविष्करोति । चउसत्तअट्ठनवगेगारसकूडेहिं गुणह जहसंखं । सोलसदुदुगुणयालं दुवे य सगसट्ठीसयचउरो ॥१६॥
च उसत्तअनवगेगारसकूडे हिंति चतुःसप्ताष्टनवकैकादशटैः गुणहत्ति गुणयत जहसंखति यथा सख्यं सोलसदुदुगुणयालं दुवेयत्ति षोडशद्विद्वये कोनचत्वारिंशद्विकांश्च एवं गुणिते सगसटीसय चउरोत्ति सप्तषष्ठ्युत्तरचतुःशतसङ्ख्या कूटानां भवतीति शेषः । इति पदसंचालना क्रियान्वयः । अयं भावः । षोडशसङ्ख्यान् पर्वतान् प्रत्येकं चतुःकूटैर्गुणयत । तथा च सति चतुःषष्ठिसड्ख्या षोडशनगकटानां । द्वौ पर्वतौ यथासङ्ख्यं सप्त सप्त टैर्गुणयत तथा च चतुर्दश कहानि भवन्ति । द्वौ पर्वतावष्टभिरष्टभिः कटैः गुणयत एवं च षोडश कूटानि भवन्ति । एकोनचत्वरिंशत्सङ्खयान् गिरीन् नवनवकूटैर्गुणयत एकपञ्चाशदुत्तरत्रिशतसङ्खयकानि कुटानि भवन्ति ।
अत्र गुणयतेति प्रेरणायां पञ्चम्यन्तं क्रियापदं तच्च श्रोतृणां कथञ्चिदनुपयोगवर्शतः प्रमत्तासम्भवेऽपि वक्ता नोद्वेजितव्यं किन्तु मृदुमधुरमन आल्हाददायिहितकारिवचोभिः शिक्षानिबन्धनैः श्रोतृणां मनांसि प्रल्हाद्य यथायोग्यं सन्मार्गप्रवृत्तिस्तत्त्वविवृत्तिश्योपदेष्टव्येति प्रख्यापनार्थ यदवाच्यनेनैव भगवता प्रवचनोपनिषद्वेदिना हरिभद्रसूरिणाऽन्यत्र"अणुवत्तणाइ सेहा पाय पावंति जुग्गयं परमं । रयणंपि गुणुकरिसं उवेइ सोहं मणुगुणेणं ॥१॥ इन्थ य पमायखलिया पुवब्भासेण कस्स व न हुंति । जो तेऽवणेइ सम्म गुरुत्तणं तस्स सफलेति ॥२॥ को नाम सारहीणं सहज जो भद्दवाइणो दमए । दुढे वि य जो आसे दमेइं तं सारहिं बिंति ॥३॥
इत्यादि । तथा च सर्वसङ्ख्या मीलने सप्तषष्ठयुत्तरचतुःशतसङ्ख्यानि कूटानि भवन्ति । हृदयं यन्त्रकादवसेयं । तच्चेदं यन्त्रकम् ।