Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीक जंबूद्वीपसङ्ग्रहणी
सिद्धायतनादि चुल्ल' हेमवद्वत् तथाहि सिद्धायतने सिद्धालयः, निषधहरिवर्षपूर्वविदेहापरविहरुचकेषु स्वस्वाभिख्यदेवावासाः । इरिसलिला धृतिसीतोदासु स्वस्वाभिख्यदेव्या वासाः । इति निषधकूटनवकवर्णनम् । नीलवति नव कूट' नि- सिद्धायतननीलवत्पूर्वविदेह सीता नारीकान्ताकीर्त्तिदेव्यपरविदेह रम्यकोपदर्शनाख्यानि । शेषं पूर्ववत् इनि नीलवत्कूट नवकवर्णनम् । माल्यवति गजदन्ते नवकूटानि तद्यथा मेर्वन्ति सिद्धायतनं ततोऽनुक्रमं नीलवत्सन्मुखानि माल्यवदुत्तर कुरु कच्छसागर रजत सीतापूरणभद्रहरिस्सहाख्यान्यष्टौ कूटानि । तत्र सिद्धायतने सिद्धायतनं सागररजतयोः सुभोगा भोगमालिन्योर्दिक कुमार्योरावासौ, शेषेषु स्वस्वाभिख्य देवावासाः । इति माल्यवत्कूटनवकस्वरूपम् । सुरगिरेर्नव कूटानि तथाहि नन्दनवने सिद्धायतनदिक्कुमारिका प्रासादान्तरेऽष्टौ कूटानि-नन्दनवन मेरुनिषधहिमवद्रजतरुचकसागर चित्रवज्रा ख्यानि । तेषु मेघङ्करी - मेघवती - सुमेघा - मेघमालिनी - सुवत्सा - वत्स मित्रावज्र सेना - बलाहिकाख्याष्टदिक्कुमारिकावासाः । । इमा दिक्कुमारिका उद्धर्वलोकवासिन्य उच्यन्ते यतस्तासामावासाः समभूतलातः सहस्रयोजनोपरिवर्तिनः । नवमं च बलना मकूटं ईशानकोणे सहस्रयोजनोच्चं नन्दनवनाच्च सार्वपञ्चशतयोजनोच्चं तत्र बलनामा देवः परिवसति । इति सुरगिरिनवकूटानि ॥
चुल्लहिमवद् गिरावेकादश कूटानि - सिद्धायतनचुल्लहिमवद्भग्तेला गङ्गा वर्तन श्रीदेवीरोहितांशा देवी सिन्ध्यावर्तन सुगदेवी हिमवतवैश्रमण देवाख्यानि । तेषु सिद्धायन्नं कूटं पूर्व लवणप्रतीचीनं चुल्लहिमवत्कूटप्राचीनं पश्चशतयोजनोच्चं पञ्चशतयोजनविस्तीर्णायाममूलं, पादोनचतुःशत योजनविशालायाममध्यं, सार्धद्विशतयोजनविशालायामोवरिमभागं, साधिकै काशीत्युत्तर पञ्चदशनानि पक्षेिपमूलं किश्चिदूनषडशीत्यधिकैकादशशतानि परिक्षेपमध्यं किञ्चिदूने कनवत्यधिकसप्तशतानि परिक्षेपोपरिभागं पद्मवर वेदिकापरिकरितं गोपुच्छसंस्थानसंस्थितं । ततोऽनुक्रमं दशकूटानि तावदायतविशालो च्चैस्त्वपरिक्षेपवन्ति ज्ञेयानि । तत्र सिद्धायतनकूटस्योपरि भास्वरप्रभोः महान् सिद्धालयः । स च पञ्चाशयोजनायामः पञ्चविंशतियोजनविष्कम्भः षट्त्रिंशद्योजनोच्चः प्राभ्युदोच्यवाची स्थद्वारत्रयोपशोभितः तच्चैकैकं द्वारमष्टाष्टयोजनान्युच्चं चत्वारि चत्वारि योजनानि विस्तारप्रवेशम् । तत्र सिद्धायतनेऽष्टयोजनविशाला तावदायता चतुर्योजनमेदुरा महती मणिपीठिका विभाति । तदुपरि प्राधिकाष्ठयोज नोच्चो अष्टयोजनविष्कम्भः तावदायत एको देवच्छन्द कस्तत्र च प्रागुक्तवैताढ्य सिद्धायतनवदष्टोत्तरशतशाश्वतप्रतिमाप्रमुख प्रतिपत्तव्यम् । शेषाणां दशानामपि कूटानामुपरि तत्तत्टाधिपतिनाऽधिष्ठितसपादैकत्रिंशद्योजनान्युच्चः सार्धद्वाषष्ठियोजनान्यायतः तावद्विशालश्चैकैकः प्रासादः शोभते । तत्र चुल्लहिमवद्भरत हैमवतवै श्रमणाख्येषु चतुर्षु कूटेषु तन्नामानो देवा राजन्ते । शेषेषु षट्सु देव्यः । तत्रापि इलासुररादेवीकूटद्वयवासिन्यौ द्वे देव्यौ दिक्कुमारिके, गङ्गावर्त्तन सिन्ध्वावर्त्त नरोहितांशा सूर्याख्येषु चतुर्षु तत्तन्नामनयधिष्ठात्र्यः, श्रीदेवीकूटे
wwwwwww
६१

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154