Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 97
________________ ६० सटीकजंबूद्वीपसङ्ग्रहणी सर्वथाऽसंभवस्यानभिमतत्वात् । किन्तु तथाधिदैविकातिशयानुभावात् तेषां श्मश्रुकर्चादीनां श्रामण्यग्रहणादनु अवस्थितिः स्यात् । एवं च सति पुरुषत्वप्रतिपत्तिः सौंदर्य च सिद्धयति । यदुक्तं श्रीसमवायाङ्गे-"अवट्ठियकेसमंसुरोमणहे" इति । ओपपातिकेऽपि प्रथमोपाङ्गेऽभिहितं “अवट्ठिय सुविभक्तचत्तमंसू" इत्यादि । अभ्यधायि च वीतरागचत्वाििशकायां "उत्पन्ने केवलज्ञाने नखलोमनोरवस्थितिमित्यादि । इत्थं च तासां शाश्वताहत्प्रतिमानां भावजिनपतिप्रतिरूपतया श्म कूर्चादियुक्तिमदेव । भाष्यवृत्तौ तु याऽपगतकेशशी मुखा श्रामण्यदशोदिता साऽवर्धिष्णुत्वेनाल्पत्वात्तयोरभावविवक्षया । एकैकस्याः प्रतिमायाः पृष्ठतः छत्रधारिणी, पार्श्वतो वे द्वे चामरधारिण्यौ, पुरतः पादपतितं घटिताञ्जलिविनयावनते द्वयं द्वयं यक्षभूतकुण्डधारप्रतिमानां बोध्यम् । अत्र देवच्छन्दके घण्टाधूपकडुच्छकानां प्रत्येकमष्टोत्तरशतं, एवं चन्दनकुम्भादीनामपि बोध्यम् । तथाहि " चंदणकलता १ भिंगारगा २ भायंसगा ३ यथाला य ४ पाईओ ५ सुपइट्ठा ६ मणिगुलिया ७ वायकरगा य ८ ॥ चित्तारयणकरंडग ९ हय १० गय ११ नरकंठगा य १२ चंगेरी १३ । पडलग १४ सीहासण १५ छत्त १६ चामर १७ सुमग्गय १८ झया य ।" शेषाष्टकटोपरि स्वस्वदेवानां रात्निकाः प्रासादावतंसकाः क्रोशतुङ्गा अर्धक्रोशविस्तृतायताश्च । इदञ्च जंबूद्वीपप्रज्ञप्तिबृहत्क्षेत्रसमासाभिप्रायेण । वाचकावतंसोमास्वातिकृते जंबूद्वीपसमासे त्वमी प्रासादावतंसकाः क्रोशदैर्ध्यविस्ताराः किश्चिन्न्यूनतदुच्छ्रया अभिहिताः सन्ति । तेषां प्रासादानां मध्ये आयामव्यासयोर्धनुषां पञ्चशतानि तदर्धमेदुरा चैकैका महती मणिपीठिका, तासामुपरि रत्नमय तत्तत्कूटस्वामियोग्यं परिवारासतैः (१) परितः परिकलितं चैकैकं सिंहासनं राजते । तत्र सिंहासने तेषां तेषा कूटानां नायका नाकिना यदा स्वस्वराजधान्या अत्रायान्ति तदा सुखमासते । एषां च सुराणां मेरोरवाच्या असङ्ख्यद्वीपाब्धीनामतिक्रमेऽपरस्मिन् जम्बूद्वीपे यथायथं राजधान्यो राजन्ते । इति भरतवैताढयकूटनवकवर्णनम् । एवं शेषेषु त्रयस्त्रिंशत्सु विजयेषु कूटानि वाच्यानि । नवरं दक्षिणार्धभरतोत्तरार्धभरतकूटयोः स्थाने स्वस्वविजयनामाङ्किते वाच्ये यथा दक्षिणार्धेग्वत कटोत्तराधैरवत कूटे । इति चतुस्त्रिंशद्वैतादयषडधिकशतत्रयसङ्ख्यककूटवर्णनम् । विद्युत्प्रभाख्यनिषधगजदन्ते नवकूटानि तद्यथा मेन्तिके प्रथमं सिद्धायतनकूटं ततोऽनुक्रमं निषधसन्मुखान्यष्टौ कूटानि विद्युत्प्रभ-देवकुरु -पम-कनक-सौवस्तिक-सीतोदा-शतज्वल-हर्याख्यानि । तत्र सिद्धायतने सिद्धायतनं कनकसौवस्तिककूटयोः पुष्पमालापरनामकवारिषेणाऽनंदितापरनामकबलाहिकयोदिशाकुमार्योरावासौ शेषेषु स्वस्वाभिख्यदेवावासाः। इति विद्युत्प्रभगनदन्तकूटनवकवर्णनम् । निषधे नवकूटानि तद्यथा सिद्धायतननिषधहरिवर्षपूर्वविदेहहरिकृतिशीतोदापरविदेहरु चकाख्यानि । तत्र सिद्धायतनादिषु

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154