Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीक जंबूद्वीपसङ्ग्रहणी
स्तुल्यरूपी, तिगिञ्छिकेसरिणौ तुल्यौ । एते च यथोत्तर द्विघ्ना बोध्यास्तथाहि पद्मपुण्डरीकाया द्विघ्नौ महापद्म महापुण्डरीकौ ततोऽपि द्विघ्नौ तिगिञ्छिकेसरिणात्रिति । एषां षण्णामपि हृदानां यथाक्रमं षड्देव्यो भवन्ति श्री - ही - धृतिलक्ष्मीबुद्धि कीर्त्यभिधास्तथाहि - पद्मे श्री:, महापद्मे हीस्तिगिञ्छिौ धृतिः पुण्डरीके लक्ष्मीर्महापुण्डरीके बुद्धि:, केसरिणि कीर्तिश्चेति । पञ्च च देवकुरुवृत्तयो निषेध १ देवकुरु २ सुरप्रभ ३ सुलस ४ विद्युत्प्रभाभिधानाः ५ क्रमशः । एवमुत्तरकुरुष्वपि पञ्च यथाक्रमं नीलैत्रदुत्तरकुरुचैन्द्रैरर्खेत माल्यवदभिधाः । एते दशापि पद्महूदतुल्यरूपा भूमिहूदाभिधया प्रतीयन्ते । एवञ्च -
6
'षट् पर्यतहूदा ज्ञेया दश भूमिहूदास्तथा ।
१७
षोडश सङ्ख्यया ह्येते प्रज्ञप्ता जगदीश्वरैः ॥
9
एवमिह भरतादिषु सप्तसु वर्षेषु सपरीवारा लवणवारिधिगामिन्यश्चतुर्दश महानद्यो भवन्ति । तद्यथा सप्तैता मेरोर्दक्षिणतः सप्त चोत्तरतः तथाहि गङ्गो सिन्धू रोहितांशा रोहिती हरिकान्ता हरिनँदी शीतोदा चैता महासरितः सप्तापाग्दिशि । एवं रक्तो रक्तवती रूपयैकूला स्वर्णकूला नरेंकान्ता नारीकान्ता शांता चेमाः सप्तोत्तरकाष्ठायाम् । एतासां निर्गमस्थानानि हिमवदादिषड्वर्षधरस्थपद्मादयः षड् हृदाः । तथाहि भरतस्थे गङ्गासिन्धू हैमवतस्था रोहितांशा चेति तिस्रो महानद्य: हिमवत्पर्वतस्थायिपद्माभिधहूदान्निर्गताः । एवं हैमवतस्थायिनी रोहिता हरिवर्षगामिनी हरिकान्ता चेति द्वे महासरिते महाहिमवदचलस्थ महापद्महूदनिर्गते । एवं हरिवर्षस्थायिनी हरिनदी, अपरविदेहवर्त्तिनी शीतोदा चेति उभे महापगे निषधनगवर्त्तितिगिञ्छिहूदसमुत्पन्ने । ऐ रक्ता रक्तवती हैरण्यवतस्था च स्वर्णकूलाभिधा तिस्रोऽपि महानद्यः शिखरिशिखरवर्त्ति पुण्डरीकहृदूसमुद्भूताः । एवं हैरण्यवतगामिनी रूप्यकूला रम्यकगामिनी नरकान्ता चेति नदीद्वयं रुक्मिनगाश्रितमहापुण्डरीकहूदोद्गतं । एवं रम्यकाश्रिता नारीकान्ता पूर्वविदेहवर्त्तिनी शीता चेति नदीयामलं नीलवदद्रिस्थ केशरिहूदसमुत्पन्नं । एवञ्चैतासां घराघरानाश्रित्य गङ्गासिन्धू रोहितांशा चेति तिस्रो हिमवतः, रोहिता हरिकान्ता चेति युगलं महाहिमवतः, हरि (सलिला) शीतोदा चेति द्वन्द्वं निषधस्य, रक्ता रक्तवती स्वर्णकूला चेति त्रिकः शिखरिणः, रूप्यकूला नरकान्ता चेति मिथुनं रुक्मिगः, नारीकान्ता शीता चेति युगं नीलवत:, इति चेतुर्दशानां व्यवस्था ।
क्षेत्राण्याश्रित्य तु सप्तस्वपि वर्षेषु प्रतिवर्षं द्वयं द्वयं । तत्र षण्णद्यो दक्षिणवर्षेषु, षट्चोदग्वर्षेषु द्वयं च पूर्वापरविदेहेषु तथा च भरते गङ्गा सिन्धुश्चेति द्वयं, हैमवते रोहितांशा रोहिता चेति युगलं, हरिवर्षे हरिकान्ता हरि चेति भिथुनं इत्येता दक्षिणक्षेत्रस्थाः षट् । एवं ख १ नदीनामित्यर्थः
३

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154