Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ सटीक जंबूद्वीपसङ्ग्रहणी भागस्तत्र तत्रोद्वेधो बोध्यः । यथा गङ्गासिन्ध्वोर्मूले अर्धक्रोश उद्वेधः, पर्यन्ते चैकं योजनं एकश्च क्रोशः । एवं सर्वासामपि स्वस्वविस्तारानुसारेणोद्वेधभावना भाव्या । एतासां सर्वासामपि सरितां कुण्डोद्वेधद्वीपोच्छ्रायद्वीपदेवीभवनपरिमाणादिकं सदृशमेवात्रसेयम् । एतासु गङ्गासिन्धु - रोहिता -हरिसलिला-शीता-नरकान्ता - स्वर्णकुलाख्याः सप्त नद्यो दक्षिणाभिमुखगामिन्यः । रक्ता– रक्तवती रूप्यकूला-नारीकान्ता-शीतोदा - हरिकान्ता - रोहितांशामिघाश्च सप्त नद्य उत्तराभिमुखगामिन्यः । सिन्धुं विना दक्षिणा दिग्गाभिन्यः षण्नद्यः गङ्गा-रोता - हरिसलिला - शीता - नरकान्ता स्वर्णकूलाभिधानाः पूर्वाब्धिगामिन्योऽवसेयाः । सिन्धुस्तु प्रत्यगन्धिगामिनी । रक्तानदीमृते उदग्याता या रक्तत्रती-रूप्यकूला-नारीकान्ता - शीतोदा - हरिकान्ता - रोहितांशानाम्न्यः षण्नद्यः प्रतीच्यम्बुधिगाः । रक्ता च पूर्वाधिगेति । स्थापना चेयम् । ' २४ अत्र जंबुद्वीपे नवतिः कुण्डानि तानि चैवं विदेहेषु षोडशापाग्विजयाः षोडश चोदविजयाः। तत्रापाग्विजयेषु प्रत्येकं गंगासिंध्वभिधाने द्वौ द्वौ सरितौ इति द्वात्रिंशत् । एवमुदग्विजयेषु प्रत्येकं रक्तारक्तवत्यभिधाने द्वौ द्वौ नद्याविति ता अपि द्वात्रिंशत् । एवमेताश्चतुःषष्टिः, तासां च प्रत्येकमेकैकं प्रपातकुण्डं इति तानि चतुःषष्टिः । सप्तवर्षीनदीनामपिं एकैकप्रपातकुण्डसद्भावातानि चतुर्दश । द्वादश चान्तर्नदीप्रपातकुण्डानि । सर्वसडख्यया तानि नवतिर्भवन्ति । अयं प्रागुक्तः पर्वतकूटकुण्डनदीसमूह : सर्वोऽपिं उभयतो वनाढ्यपरिकरितो वेदितव्यः । इति नदीद्वारम् । इह द्वीपे चतुस्त्रिंशद्विजयानि द्वयुत्तरं शतं तीर्थान्यवसेयानि । तथाहि भरते नाम्नि विजये दक्षिणलवणाम्बुध्युपान्ते गङ्गावताररूपं मागधनामतीर्थम् । एवं सिन्ध्ववतारस्थानं प्रभासनाम, तयोरन्तराले वरदामाभिधमिति त्रीणि तीर्थानि । एवमैरवतेऽपि त्रीणि । द्वात्रिंशति विजयेषु च प्रत्येकं त्रीणि त्रीणि, सर्वसङ्ख्यया द्वयुत्तरं शतमिति तीर्थद्वारम् । चतुस्त्रिंशति वैतादयेषु प्रत्येकं श्रेणिचतुष्कसद्भावादस्मिन् द्वीपे ताः षटत्रिंशं शतं । तथाहि भरतं द्विधाविभक्ता पूर्वापरायत उभयतो लवणाम्बुध्यवगाढो वक्ष्यमाणस्वरूपो वैताढ्याख्योऽचलः । तस्य दक्षिणोत्तरपार्श्वयोः भूभागादुपरि दशसु योजनेषु गतेषूभयतः विद्याधराणां द्वे श्रेण्यौ, ततोऽप्युपरि दशसु योजनेष्वितेष्वन्येऽपिं द्वे । एवं एकस्मिन् वैताढये चतस्रः श्रेणयः । एवमैरव द्वात्रिंशति विजयेषु चेति । एवं च चतुस्त्रिंशति वैतादयेषु प्रत्येकं श्रेणीचतुष्कभावात् षट्त्रिंशं शतं श्रेण्यो भवन्ति । इति श्रेणीद्वारम् । चक्रवर्त्तिजेयाश्चतुस्त्रिंशद्विजया: । एवमस्मिन् यथार्थाभिधाने द्वीपे जघन्यतोऽपि चत्वारो १. स्थापनायै द्रष्टव्यश्चित्राङ्को द्वितीयः, पृ. १४.

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154