Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपसङ्ग्रहणी
स्थापना
अनन्ता परमाणु = १ बादर परमाणु ८ बादर परमाणु = १ त्रसरेणु ८ त्रसरेणु = १ रथरेणु ... ८ रथरेणु = १ वालाग्र ८ वालाग्र = १ लिक्षा
८ लिक्षा = १ यूका ८ यूका = १ यव
८ यव = १ अङ्गुल ६ अङ्गुल = १ पाद
२ पाद = १ वितस्ति २ वितस्ति = १ हस्त
२ हस्त = १ कुक्षि २ कुक्षि = १ धनुः
२००० धनुष = १ कोश ४ कोश = १ योजन
अथ गाथापश्चार्ध - विक्खंभपायगुणिओ परिओ तस्स गणियपयं ॥७॥
विकखभपायगुणिओत्ति विष्कम्भस्य विस्तारस्य पादः चतुर्थो भागस्तेन गुणितः सन् परिरओत्ति परिरयः परिक्षेपो तस्सत्ति तस्य विष्कम्भस्य गणितपयंति गणितपदम् वृत्तक्षेत्रस्य समचतुरस्रैकयोजनमितखण्डाः भवन्तीति क्रियाशेष इतिपदगमनिका । अयमर्थः । परिघिसडख्या विस्तारचतुर्थभागेन गुणिता गणितपदं भवति । यथा प्रायः मुलस्य (२५) परिधेरष्टाङ्गुलस्य विष्कम्भस्य चतुर्थो भागो द्वेऽङ्गुले ताभ्यां गुणिता परिधिः पञ्चाशदङ्गुलमानं (५०) गणितपदं भवति। एवमिहापि इह तावज्जंबूपरिधिस्त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतिर्योजनानि (३१६२२७) त्रयः कोशाः (३) अष्टाविंशत्युत्तरैकशतं (१२७) धनूंषि सार्धत्रयोदशाङ्गुलानि किञ्चिदधिकानि, तस्या योजनानि जंबूद्वीपविष्कम्भस्य लक्षयोजनस्य चतुर्थो भागः पञ्चविंशतिसहस्राणि (२५०००) । तेन चतुर्थभागेन गुणितानि सप्तशतनवतिकोटिपादोनसप्तपञ्चाशल्लक्षाणि (७९०५६७५०००) योजनानां जायन्ते । सा सख्या एकत्र स्थाण्या । त्रयः कोशाः पञ्चविंशतिसहस्रया गुणिता पञ्चसप्ततिसहस्री (७५०००) चतुर्भिविभक्ता सप्तशतपञ्चाशदुत्तराष्टादशसहस्री (१८७५०) योजनानां । सा पूर्वोक्तयोजनैः सह स्थाप्या। अथ चाष्टाविंशत्युत्तरैकशतसङ्ख्याकानि (१२८) धनूर्षि परिधिसत्कानि विष्कम्भपादसत्कया पञ्चविंशतिसहस्रया (२५०००) गुणितानि द्वात्रिंशल्लक्षाणि (३२,००,०००) धनुषां जायन्ते । अष्टसहस्रैर्धनुर्भिश्च योजनमेकं जायतेऽतः तावद्भिः पूर्वसङ्ख्या भक्ता सती चतु:शतं (४००) योजनानां । साऽपि पूर्वसङ्ख्यया सह स्थाप्या। अथ च परिधिसत्कानि सार्धत्रयोदशाङ्गुलानि पञ्चविंशतिसहस्रया (२५०००) गुणितानि त्रिलक्षसाघसप्तत्रिंशत्सहस्रसडख्याङ्गुलानां भवति । तेषामङ्गुलानां धनुःकरणार्थं षण्णवत्या (९६) भागं

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154