Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीक जंबूद्वीपसङ्ग्रहणी
दुःषमाभिधः पश्चामारकः एकविंशतिवर्षसहस्रीमानः । तत्र सप्तहस्त देहौच्ध्यं त्रिंशदधिकशतवर्षमायुर्नराणाम् । एतदारकप्रान्ते च पूर्वाह्न श्रुतसूरिसङ्घधर्माणामुच्छेदो भविष्यति । मध्याह्ने राजधर्मराजामात्यादीनां अपराह्ने च व्यवहाराचारनीतिततिप्रभृतीनामिति तथा चोक्तं पूर्वर्षिभिः
"सुयसूरि संघधम्मो पुत्रवण्हे विज्जहि अगणिसायं । निविमलवाहणो सुहुममंती तद्धम्ममज्झ ॥ १ ॥ दुप्पो समणाणं फग्गुसिरी होइ साहुणीणं च । सदूढो नाइलनामा सच्चसिरी सावियाणं च ॥ २ ॥ पूव्वण्हे संजए विच्छेओ होइ चरणधम्मस्स । मज्जहे रायाणं अवरण्हे इयस्स ॥ ३ ॥
४७
ततो यज्जायते तद्भव्यबोधार्थ षष्ठारक स्वरूपमपि किञ्चिदुच्यते । तथाहि लवणादिक्षाराग्निकालकूटादिविषाणां वृष्टिर्भविष्यति । तेन पृथ्वी हाहाकारं करिष्यति । तथा पक्षिणां बीजानि वताढ्यमुखगिरिषु स्थास्यन्ति । मनुष्यतिर्यग्बीजानि द्विसप्ततिसख्येषु बिलेषु स्थास्यन्ति । भरते द्विसप्ततिमङ्खयानि बिलान्येवं दक्षिणार्धभरते गङ्गासिन्ध्वोद्वे द्वे कूले प्राचीप्रतीच्योः प्रत्येकं वेदितव्ये । ततश्चत्वारि कुलानि । एवमुत्तरार्धभरतेऽपि तथा चाष्टौ कलानि । तत्र प्रत्येकं कूले नव नव बिलानि तथा च द्विसप्ततिबिलानि भवन्ति । एवमैरवत्क्षेत्रे ऽपि वेद्यं स्वरूपम् । षष्ठारको दुःषमदुःषमानामा एकविंशतिवर्षसहस्रीमानः । तत्र एकहस्तोच्चदेहः, विंशतिवर्षायुर्नराणां, मनुष्या मत्स्याहारकाः, कुरूपिणो निर्दयपरिणामिनः, बिलवासिनः नारकतिर्यगादिदुर्गतिमटन्तः निर्होका निष्ठुरभाषिणः पशुवन्नग्नाटाः तिर्यग्वत् पितापुत्रादिव्यवहाररहितत्वाद्विवेक विकला : वार्षिका नारी गर्भमाधास्यति । अतिकष्टं च प्रसुते । प्रभूतबालाश्च ता अबला भविष्यन्ति । इति षष्ठारकस्वरूपम् ।
इदमवसर्पिणीस्वरूपम् । तद्विपरीतं चोत्सर्पिणीस्वरूपम् । तथाहि षष्ठारकवत्प्रथमः । एवं पञ्चमवद्वितीयः । षष्ठार कवदुत्सर्पिण्ये कविंशतिसहस्र वर्षमानप्रथमारकव्यतिक्रान्ते द्वितीयारका दौ सकल सत्त्वाभ्युदयार्थमिमे पञ्चमहामेघा जायन्ते । तथाहि पुष्कलसंवर्तकः १ क्षीरोदः २ घृतोदः ३ अमृतोदः ४ रसोदश्चेति ५ । तत्र पुष्कलसंवर्त्तको नाम भरतैरवतो: पुष्कलान् प्रचुरानशुभानुभावान् भूमिरुक्षतादाहादीन् स्ववारिणा संवर्त्तयति नाशयतीत्यर्थः । शेषाः स्पष्टाः ।
एवं क्रमेण यावत् प्रथमारकवत् षष्ठ इति द्वादशारकस्वरूपम् ।

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154