SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सटीक जंबूद्वीपसङ्ग्रहणी दुःषमाभिधः पश्चामारकः एकविंशतिवर्षसहस्रीमानः । तत्र सप्तहस्त देहौच्ध्यं त्रिंशदधिकशतवर्षमायुर्नराणाम् । एतदारकप्रान्ते च पूर्वाह्न श्रुतसूरिसङ्घधर्माणामुच्छेदो भविष्यति । मध्याह्ने राजधर्मराजामात्यादीनां अपराह्ने च व्यवहाराचारनीतिततिप्रभृतीनामिति तथा चोक्तं पूर्वर्षिभिः "सुयसूरि संघधम्मो पुत्रवण्हे विज्जहि अगणिसायं । निविमलवाहणो सुहुममंती तद्धम्ममज्झ ॥ १ ॥ दुप्पो समणाणं फग्गुसिरी होइ साहुणीणं च । सदूढो नाइलनामा सच्चसिरी सावियाणं च ॥ २ ॥ पूव्वण्हे संजए विच्छेओ होइ चरणधम्मस्स । मज्जहे रायाणं अवरण्हे इयस्स ॥ ३ ॥ ४७ ततो यज्जायते तद्भव्यबोधार्थ षष्ठारक स्वरूपमपि किञ्चिदुच्यते । तथाहि लवणादिक्षाराग्निकालकूटादिविषाणां वृष्टिर्भविष्यति । तेन पृथ्वी हाहाकारं करिष्यति । तथा पक्षिणां बीजानि वताढ्यमुखगिरिषु स्थास्यन्ति । मनुष्यतिर्यग्बीजानि द्विसप्ततिसख्येषु बिलेषु स्थास्यन्ति । भरते द्विसप्ततिमङ्खयानि बिलान्येवं दक्षिणार्धभरते गङ्गासिन्ध्वोद्वे द्वे कूले प्राचीप्रतीच्योः प्रत्येकं वेदितव्ये । ततश्चत्वारि कुलानि । एवमुत्तरार्धभरतेऽपि तथा चाष्टौ कलानि । तत्र प्रत्येकं कूले नव नव बिलानि तथा च द्विसप्ततिबिलानि भवन्ति । एवमैरवत्क्षेत्रे ऽपि वेद्यं स्वरूपम् । षष्ठारको दुःषमदुःषमानामा एकविंशतिवर्षसहस्रीमानः । तत्र एकहस्तोच्चदेहः, विंशतिवर्षायुर्नराणां, मनुष्या मत्स्याहारकाः, कुरूपिणो निर्दयपरिणामिनः, बिलवासिनः नारकतिर्यगादिदुर्गतिमटन्तः निर्होका निष्ठुरभाषिणः पशुवन्नग्नाटाः तिर्यग्वत् पितापुत्रादिव्यवहाररहितत्वाद्विवेक विकला : वार्षिका नारी गर्भमाधास्यति । अतिकष्टं च प्रसुते । प्रभूतबालाश्च ता अबला भविष्यन्ति । इति षष्ठारकस्वरूपम् । इदमवसर्पिणीस्वरूपम् । तद्विपरीतं चोत्सर्पिणीस्वरूपम् । तथाहि षष्ठारकवत्प्रथमः । एवं पञ्चमवद्वितीयः । षष्ठार कवदुत्सर्पिण्ये कविंशतिसहस्र वर्षमानप्रथमारकव्यतिक्रान्ते द्वितीयारका दौ सकल सत्त्वाभ्युदयार्थमिमे पञ्चमहामेघा जायन्ते । तथाहि पुष्कलसंवर्तकः १ क्षीरोदः २ घृतोदः ३ अमृतोदः ४ रसोदश्चेति ५ । तत्र पुष्कलसंवर्त्तको नाम भरतैरवतो: पुष्कलान् प्रचुरानशुभानुभावान् भूमिरुक्षतादाहादीन् स्ववारिणा संवर्त्तयति नाशयतीत्यर्थः । शेषाः स्पष्टाः । एवं क्रमेण यावत् प्रथमारकवत् षष्ठ इति द्वादशारकस्वरूपम् ।
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy