________________
सटीकजंबूद्वीपसग्रहणी
अथ तृतीयारकप्रान्ते च नवकुल कर-राजनीति-सर्वसंसृतिव्यवहृते-जिनधर्म- बादराग्निकाय-ज्ञानविज्ञानादीनि प्रकटोभवन्ति । त्रिवर्षसार्धाष्टमाते सावशेषे तृतीयारके प्रथमस्तीर्थकृत्सेत्स्यति । तावद्वर्षशेषे चातुर्थारके चतुर्विशतितमोऽर्हन् सेत्स्यति । इदमवसर्पिण्यां विज्ञेयं । उत्सर्पिण्यान्तु तावत्येव 'तृतीयचतुर्थारके गते पश्चिमाप श्चम तीर्थकरो जायेते । उत्पपिण्यवमपिण्योरयं विशेषः यदुत उसर्पन्ते समये समये वृद्धिमुपयान्ति रूपरसायुर्बलमेधाशरीरादयो यस्यां दशकोटाकोटीसागरवा सोत्सर्पिणी । अवसर्पिणी नाम-अपसर्पन्ते हासमुपयोन्ति त एव यस्यां दशकोटाकोटासागरवा सावसर्पिणी। उभयोमीलने विंशतिकोटाकोटीसागरवर्षमानं कालचक्रं भवति । चतुर्थदुःषमासुषमाभिख्यः द्विचत्वारिंशद्वर्षसहस्रयूनैककोटाकोटिसागरमानः। पूर्वकोटिवर्षी नरायुः, पञ्चशतं धनधि देहीच्यं । अयं च सर्वदा तीर्थकर सद्भावः । तथाहि-पूर्वविदेहवनखण्डान्तिकस्थाष्टमनवमविजययोः पुण्डरिकिण्यां सुसोमायां च पुर्या यथाक्रमं मीमन्धर बाहुनामानौ द्वावर्हन्तौ । एवं पश्चिम वदेहवनखण्डान्तिकस्थचतुर्विशतितमपञ्चविंशतितमविजययोः अयोध्यायां विजयायाञ्च नगर्या यथाक्रमं सुबाहुयुगमन्धरनामानौ द्वौ तीर्थकरौ साम्प्रतं विचरतः । ते च तीर्थकृतः कुन्थ्वरनाथयोग्न्तराले एकस्मिन्नेव समये जाताः । मुनिसुव्रतनमिनाथयोग्न्तराले प्रवजितः । एकवर्षसहस्रों यावच्छद्मस्थामनुभूय समकमेव केवलज्ञानमवाप्नुवंश्च । आगामिन्यां चतुर्विंशतिकायां सप्तमाष्टमनीर्थकृतोरन्तराले समकमेव सेत्स्यन्ति । सर्वेषां प्रत्येकं पञ्चशतधनुर्देहमानं चतुरशीतिलझपूर्वमायुः चतुरशी तमङ्ख्या गणभृतां, दशलक्षमङ्ख्या केवलिनां, शतकोटि सङख्या मुनीनां, तावता च सावानां भवति । अत्र विदेहे एकस्मिन् विजये सर्वदा द्रव्यभावतीर्थ कृतः सम्मोल्य चतुरशीति सङ्ख्या भवति । तथाहि एकस्तावत् केवली, अन्ये च कश्चिद्राजा, कश्चिद्युवराजा कश्चिद् बालक इति । अथ यदा केवली सिद्धमाप्नोति तदा त्र्यशीतितमः कवलं सम्पद्यते । एकश्चान्यो जातिमवाप्नोति । नन्वेकस्मिन् क्षेत्रेऽन्यस्तीर्थकरो वासुदेवश्चक्रवर्ती बलदेवो न सम्भवति तत्कथमियमुच्यते तीर्थकृतां चतुरशीतिसङ्ख्या इति चेत् । सत्यं, अत्र वृद्धसम्प्रदायः 'एतेषां विजयानां शाश्वतो भाव एवमेव नान्यथा' । किश्च निश्चयव्यवहारनयद्रव्यभाव दिभेदाभ्युपगमवता न कापि क्षतिः । तथाहि निश्चयनयतस्तु · भावितीर्थकरा अपि तीर्थकृत्त्वेन व्यप देश्यन्ते । व्यवहारनयतश्च समवसरणादिप्रातिहार्यसाम्राज्यभाज एव तीर्थकृत्त्वेन व्यपदिश्यते । एवं द्रव्यतस्तु तार्थकृज्जीवाः भूतभाविवर्तमानाः सर्व एव तीर्थकृत्त्वेनाभिधीयन्ते भावतस्तु "कि किल्लिकुसुमवुड्ढी देवझूणी चामरासणाई च भावलयभेरिछत्तं जयति जिणपाडिहेराई ॥" तथा चतुस्त्रिंशदतिशय(सहिताः) । तत्त्वं पुनः केवलिनो विदन्ति एवमेव धातकीखण्डे पुष्कराधैं च तार्थकृत्सङख्यास्वरूपं द्विगुणं वेदितव्यम् ।
॥ इति चतुर्थारकस्वरूपम् ॥