Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 87
________________ सटीकजंबूद्वीपसडग्रहणी शब्दापाती हरिवर्षे विकटापाती रम्यके गन्धापाती हैरण्यवते माल्यवानिति व्यवस्थेत्यत्र तत्वं पुनः केवलिनो विदन्ति । अथ चतुस्त्रिंशदायतवैताढ्या व्याख्यायन्ते । तत्र प्रथमो वैताढ्यो भरतमध्ये पूर्वपश्चिमायत उत्त'दक्षिणविस्तीर्णः पञ्चविंशनियोजनोच्चः रूप्यमयः स्फटिकवन्निर्मलः पश्यतां प्रतिबिम्बधारकत्वात् प्रतिरूपोऽस्ति । तस्य वैताढयस्य पूर्वपश्चिमयोर्दिशोगङ्गासिन्ध्वन्तिके एकपल्यायुष्कनृत्यमालकृतमालदेवाधिष्ठिते दक्षिणोदोच्योः पञ्चाशद्योजनायते प्राचीप्रतीच्योदिशयोजनविशाले अष्टयोजनोच्चे अष्टयोजनोच्चचतुर्योजनविशालवज्ररत्नमयनिबिडद्वारावृत्ते वज्ररत्नमयनिबिडखण्डप्रपातातमिस्राभिधे गुहे स्तोऽन्धकारनिरन्तरे । तत्र चक्रवर्ती दक्षिणार्धभरतात् सिन्ध्वन्तिकस्थतमिस्रागुफायामेकोनपञ्चाशन्मण्डलान्यालिख्योत्तरार्धभरतं प्रविश्य संसाध्य च निवर्तमान ऋषभकूटे स्वनाम लिखित्वा गङ्गान्तिकस्थखण्डप्रपातातो निर्गत्य दक्षिणार्धभरतमागच्छति । यावच्चक्रवर्ती जीवन्नास्ते तावत्तयो गणि उद्घाटितानि स्युः । एतयोरन्तराले प्रत्येकं उन्मग्नजलानिम्नगाजलाभिधे द्वे द्वे नद्यौ भवतः। उभेऽपि ते प्रत्येकं द्वादशयोजनायामे त्रित्रियोजनविशाले । तत्रोन्मग्नजलायां यकिश्चिदृषदिन्धननरादिकं निपतति तत्सर्व जलप्रवाहैराहत्य बहिः स्थले प्रक्षिप्यते । निम्नगायां यत्किञ्चित् तृणादिकं निपतति तत्सर्वमध एव निमज्जति । एनयोरीदृक्खभाव एव तत्र कारणं, नान्यत् किश्चिद् । इति वैताढ्यगुहावर्णनम् । ___ अत्र वैताढये वैताढ्यगिरिकुमारनामा महर्षिकः पल्यायुष्कः सुरः सन्तिष्ठते । अतस्तन्नाम शाश्वतम् । इति भरतवैताढयवर्णनम् । अत्र भरतवैताढ्यनगस्यान्तरे वक्ष्यमाणस्वरूपा विद्याधराभियोगानां श्रेणयः सन्ति । तत उपरिष्ठाभियोगश्रेणित ऊर्ध्वं पञ्चानां योजनानामतिक्रमेऽस्योपरिभागः । आकृतिश्चैषा १० यो. आभियोगिक देवानांश्रेणिः AAAAAA५ यो.. द्वितीय मेखला १० यो. १० यो. द्वितीय मेखलायां | आभियोगिक देवानां श्रेणिः । १० |१०यो. विद्याधर श्रेणिः प्रथम मेखला १० यो. AMININE muta WORVARANONV NARENA A १० यो. प्रथम मेखलायां विद्याधरश्रेणिः । Y AURANIKAA VARIANDI VEA१० यो. उच्चत्य २५ यो. ॥ वैताढय गिरेः पार्श्वदर्शनं ।। ५० यो. विस्तृति : चित्राङ्कः १२

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154