________________
सटीकजंबूद्वीपसडग्रहणी
शब्दापाती हरिवर्षे विकटापाती रम्यके गन्धापाती हैरण्यवते माल्यवानिति व्यवस्थेत्यत्र तत्वं पुनः केवलिनो विदन्ति ।
अथ चतुस्त्रिंशदायतवैताढ्या व्याख्यायन्ते । तत्र प्रथमो वैताढ्यो भरतमध्ये पूर्वपश्चिमायत उत्त'दक्षिणविस्तीर्णः पञ्चविंशनियोजनोच्चः रूप्यमयः स्फटिकवन्निर्मलः पश्यतां प्रतिबिम्बधारकत्वात् प्रतिरूपोऽस्ति । तस्य वैताढयस्य पूर्वपश्चिमयोर्दिशोगङ्गासिन्ध्वन्तिके एकपल्यायुष्कनृत्यमालकृतमालदेवाधिष्ठिते दक्षिणोदोच्योः पञ्चाशद्योजनायते प्राचीप्रतीच्योदिशयोजनविशाले अष्टयोजनोच्चे अष्टयोजनोच्चचतुर्योजनविशालवज्ररत्नमयनिबिडद्वारावृत्ते वज्ररत्नमयनिबिडखण्डप्रपातातमिस्राभिधे गुहे स्तोऽन्धकारनिरन्तरे । तत्र चक्रवर्ती दक्षिणार्धभरतात् सिन्ध्वन्तिकस्थतमिस्रागुफायामेकोनपञ्चाशन्मण्डलान्यालिख्योत्तरार्धभरतं प्रविश्य संसाध्य च निवर्तमान ऋषभकूटे स्वनाम लिखित्वा गङ्गान्तिकस्थखण्डप्रपातातो निर्गत्य दक्षिणार्धभरतमागच्छति । यावच्चक्रवर्ती जीवन्नास्ते तावत्तयो
गणि उद्घाटितानि स्युः । एतयोरन्तराले प्रत्येकं उन्मग्नजलानिम्नगाजलाभिधे द्वे द्वे नद्यौ भवतः। उभेऽपि ते प्रत्येकं द्वादशयोजनायामे त्रित्रियोजनविशाले । तत्रोन्मग्नजलायां यकिश्चिदृषदिन्धननरादिकं निपतति तत्सर्व जलप्रवाहैराहत्य बहिः स्थले प्रक्षिप्यते । निम्नगायां यत्किञ्चित् तृणादिकं निपतति तत्सर्वमध एव निमज्जति । एनयोरीदृक्खभाव एव तत्र कारणं, नान्यत् किश्चिद् । इति वैताढ्यगुहावर्णनम् । ___ अत्र वैताढये वैताढ्यगिरिकुमारनामा महर्षिकः पल्यायुष्कः सुरः सन्तिष्ठते । अतस्तन्नाम शाश्वतम् । इति भरतवैताढयवर्णनम् । अत्र भरतवैताढ्यनगस्यान्तरे वक्ष्यमाणस्वरूपा विद्याधराभियोगानां श्रेणयः सन्ति । तत उपरिष्ठाभियोगश्रेणित ऊर्ध्वं पञ्चानां योजनानामतिक्रमेऽस्योपरिभागः । आकृतिश्चैषा
१० यो. आभियोगिक देवानांश्रेणिः AAAAAA५ यो.. द्वितीय मेखला १० यो.
१० यो. द्वितीय मेखलायां
| आभियोगिक देवानां श्रेणिः ।
१०
|१०यो.
विद्याधर श्रेणिः प्रथम मेखला १० यो.
AMININE
muta
WORVARANONV
NARENA
A १० यो. प्रथम मेखलायां विद्याधरश्रेणिः ।
Y
AURANIKAA
VARIANDI
VEA१० यो.
उच्चत्य २५ यो. ॥ वैताढय गिरेः पार्श्वदर्शनं ।। ५० यो. विस्तृति :
चित्राङ्कः १२