Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपसङग्रहणी
४१
नामान्त दी । तत आवर्ताख्यो विजयः पञ्चमः । तन्मर्यादाकृन्नलिनीनामवक्षस्काराचलः । . तदनुष्ठा मङ्गलावत्ताभिधो विजयः । तत्पूर्वतो सीमाकारिणी वेगवती नामान्तर्नदी । तस्याः परतः पुष्कलाख्यो विजयः सप्तमः । तन्मर्यादाकारी एकशैलकूटो नगः पुष्कलावती विजयः अष्टमः सर्वसत्तमः । ततः परं वनमुखम् । एवं शीताया उत्तरतटेऽपि अन्तर्नदीवक्षस्काराचलान्तरिता अष्टौ विजयाः । एवं दक्षिणतटेऽपि, तत्र प्रथमं वनमुखं, तत्प्रतीच्यां वत्सनामा नवमो विजयः । तत्पश्चिमान्ते त्रिकूटः सीमाकारी वक्षस्काराचलः । ततः सुवत्साभिधो दशमो विजयः, तस्य सीमाविधात्री तप्ता संज्ञान्त दी। तदनु महावत्सनामैकादशो विजयः तस्य मर्यादायां वैश्रमणकूटो नगः । ततः परं वत्सावती द्वादशो विजयः । तस्य मर्यादायां मत्ता नदी । ततः प्रत्यग् रम्याख्यो विजयस्त्रयोदशः । तस्य प्रतीच्यन्तेऽञ्जनाद्रिः सीमाविधायी । ततः रम्यक्नामा चतुर्दशः, तन्सीमनि उन्मत्ता नामसरित् । तस्याः परतः रमणीयको विजयः पञ्चदशः । तस्य सीम्नि मातञ्जननामा नगः ततः प्रत्यग् मङ्गालावती षोडशो विजयः । इत्येवं पूर्वविदेहेषु षोडश विजयाः । तस्य च मर्यादायां सौमनसाभिधो गजदन्तो नगः । ततः पश्चिमतः देवकुरवः । तदनु विद्युत्प्रभनामा गजदन्तो नगः । ततः परं पक्ष्मनामादिमो विजयः तत्सीमाकार्यङ्कापाती धरणीधरः । ततः सुपक्ष्माख्यो द्वितीयो विजयः, तन्मर्यादायां क्षीरोदाख्यनदी । ततः प्रत्यगू महापक्ष्माख्यस्तृतीयो विजयः । तदन्ते पक्ष्मपाती भूधरः । तदनु पक्ष्मापाती चतुर्थो विजयः । तत्सीमाविद्यायिनी शीतस्रोता नामसरित् । तस्याः पश्चिमतः शडखाभिधः पञ्चमो विजयः तन्मर्यादाकारक आशीविषाचलः । तदप्रतो नलिनो नामा षष्ठो विजयः तत्सीमनि अन्तर्वाहिनी नामनदी । तत्पश्चिमतः कुमुदाभिधः सप्तमो विजयः तत्सीमाविधायी सुखावहो नामा नगः । परं नलिनावती नामाष्टमो विजयः । ततः परं वनमुखम् । इति शीतोदादक्षिणकूलसंस्थितविजयाष्टकम् । शीतोदोत्तरतटगं प्रथमं वनमुखं, ततः परं विजयो वपनामा नवमः । ततः प्राच्यन्ते सीमाकारी चन्द्राख्यो वक्षस्कारगिरिः तदनु दशमः सुवप्राभिधो विजयः तन्मर्यादायां नदी नामोर्मिमालिनी । तत्पूर्वान्ते महावप्र एकादशो विजयः । तदन्ते गम्भीरमालिनी नदी सीमाविधायिनी । ततस्त्रयोदशो वल्गुनामा विजयः । ततः सीमनि नागनामा नगः । तदनु सुवल्गुनामा चतुर्दशो विजयः । तदन्ते मर्यादाकारिणी फेनमालिनी नामसरित् । ततः पूर्वान्ते गन्धिलो नामा पञ्चदशो विजयः तत्सीमाकारी देवनामगिरिः । ततः परं गन्धिलावती नामा षोडशो विजयः इत्येवमपरविदेहेषु षोडश विजयाः। ततश्च गन्धमादनाख्यो गजदन्तगिरिः सीमाविधायी। ततः परा उत्तरकुरवः । इति महाविदेह चतुर्विभागस्थितिः ।
उत्तरकुरुस्वरूपं चेदम् । इमे च उत्तरदक्षिणविष्कम्भाः पूर्वपश्चिमायता: अर्धचन्द्रमण्डलाकारा भूभामिनीभालनिभाः । अत्र चोत्तरकुरुनामा देवो वसति । अतस्तन्नामानस्ते प्रतीताः ।

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154