Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 81
________________ ४४ सटीकजंबूद्वीपसग्रहणी रम्यक्षेत्रत्वाद्रम्यकाभिधदेवावासत्वाच्च रम्यक इति शाश्वतं नाम, तच्च नीलवत उत्तरस्यां दिशि वर्तते । इति रम्यकस्वरूपम् ॥ हिरण्यवत् प्रकाशवत्त्वाद्धरण्यवतदेवताव सत्वाच्च हिण्यवतेति शाश्वतं नाम क्षेत्रस्य, तच्च रुक्मिण उतरस्यां दिशि । इनि हिरण्यवत स्वरूपम् ॥ लवणसमुद्रादक्षिणस्थं ऐरवताधिष्ठानत्वा दैवताभिधानं क्षेत्रम् । इति ऐश्वन स्वरूपम् ॥ अथ प्रसङ्गात् तत्स्वरूपं किञ्चिद्विशिष्यते । तत्र तावद्भातैवयोदशारकप्रमाणं कालचक्र सदा चक्रायते । देवकुरूत्तरकुरुषु अवमर्पिणीप्रथमारकप्रथमकाल इव कातः सदैवावतिष्ठते । हरिवर्षरम्यकोद्वितीयारकप्रथमकालवत्कालः सदैवावतिष्ठते । हिमवद्धरण्यवतोस्तृतीयारक प्रथमकालसमः कालः सदवावतिष्ठते । पूर्वमहाविदेहापरमहा विदेहयोश्चतुर्थारकप्रथमकालवत्कालः । तत्र तत्र प्रथमार कस्सुषमसुषमा नामा चतुःकोटाकोटीसागर मानः । तत्र चतुर्थदिने तुवरमानाहारेच्छैकोनपश्चाशदिनान्यपत्यपालना नरायुस्त्रीणि पल्यानि त्रिकोशोच्चं देहमानम् । गजमिहादीनामायुर्नवत् । वडवावादीनां नरायुश्चतुर्थभागः । गोमहोषोष्ट्रगर्दभादीनां नगयुःपञ्चमो भागः । छागशृगालोदीनामष्टमो भाग । (श्वानादीनां नगयुर्दशमो भागः ।) षट्पञ्चाशदुत्त द्विशत पृष्ठकर ण्डकानि । अयं च सदापेक्षया देवकुरूत्तरकुरुषु । इति प्रथमारक स्वरूपम् । द्वितीयारकः सुषमा नामा त्रिकोटाको टिसागरमानः । तृतीयदिने बदग्मानाइतीहा । चतुःषष्टिदिनान्यपत्यपालना । द्विपल्यायुः द्विकोशोच्चं देहमानम् । अष्टाविशत्युत्तरशतानि पृष्ठकरण्डकानि । तिर्यगायुः क्रमात् समचतुर्थपञ्चमाष्टमदशमभागं पूर्ववज्ज्ञेयम् । अयं च सर्वदाश्रित्य हग्विषरभ्यक्क्षेत्रयोः । इति द्वितीयारकस्वरूपम् ॥ तृतीयारकः सुषमदुःषमानामा द्विकोटाकोटिसागरमानः, एकान्तरं आमलकप्रमाणाहारेच्छा, एकपल्यायुः, एककोशो देहमानं, एकोनाशीति दिनान्यपत्यपालना, चतुःषष्टिपृष्ठकरण्डकानि, तिर्यगायुः पूर्ववत् । अयं च सदापेक्षया हिमवद्धरण्यवतयोः । इति तृतीयाकस्वरूपम् ॥ एतेषु त्रिष्वप्यारकेषु जाता नरा युगलिका भण्यन्ते । ते च शुभमानसा अल्पकषायिणः समचतुरस्राकृतयः सुरूपिणो निरुपक्रमायुषो जम्भाक्षुतकासमात्रसम्पन्नमरणा अन्यपीडारहिताः । तेभ्यो दशविधाः कल्पद्रवः पानकादीन दशविधान् वाञ्छितभोगान् प्रयच्छन्ति तद्यथा मत्तरसांगाभिख्ये कल्पद्रुमा सुगन्धिनो मनोहरान् विशिष्टबलवीय कान्तिहेतुन् विविधान् द्राक्षेामहारसान प्रयच्छन्ति - १ । मृगाङ्गनाम्नि कल्पतरौ कनकरत्नमयानि भृङ्गारस्थालवतुलकचरकलशवर्धमानादीनि भाजनानि जायन्ते -२ । सजलघनगम्भीरकलरवचतुभेदविभत्ता प्रवरातोद्यानि महावाद्यान्वित द्वात्रिंशद्विधनाटकं च तुर्याङ्गनाम्नि कल्पपादपे प्रकटीभवन्ति - ३ | रात्रावपि रविवत् प्रकाशकाः ज्योतिरङ्गाभिधाः कल्पतरवो यत्प्रभावोपहतौ गच्छन्तावपि सूर्याचन्द्रमसौ निजां प्रभां तत्र

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154