Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
४०
सटीकजंबूद्वीपसङग्रहणी
हिमवत् क्षेत्र
वृत्त वैताढ्य
शब्दापाती
E=रोहितांशा
==== रोहिता
-HEED
हरिः सूर्याचन्द्रमसौ तद्वद्ववन्त: मनुष्या यत्र वर्षे इति हरिवर्षनामक्षेत्रां हरिवषनामा महर्घिकः सुरः सन्तिष्ठतेऽतो वा तन्नामक्षेत्रम् । इदं च महाहिमवदुत्तरदिग्भागस्थितम् । इति हरिवर्षस्वरूपम् । स्थापनैषा । चित्राङ्क : ५
हरिवर्ष क्षेत्र
वृत्त वैताढ्य
गन्धापाती
FEहरिकान्ता EEEE---
---हरिसलिला EES
सर्वेम्यः क्षेत्रेभ्यो महाविस्तीणक्षेत्रदेहत्वात् त्रिकोशं देहनरवत्त्वान्मह। विदेहाख्यमहर्धिकदेवस्थानत्वाच्च महाविदेह ति क्षेत्रं नाम शाश्वतम् । तन्महाविदेहक्षेत्रं चतुर्धा । तथाहि मेरोः प्राच्यं पूर्वमहाविदेहाः, प्रतीच्यां च पश्चिममहाविदेहाः, दक्षिणात्यं देवकुरुक्षेत्रं, उदीच्यां चोत्तरकुरवः । तत्रोत्तरकुरुषु उत्तरवुवभिधो देवकुरुषु देवकुर्वभिख्यो देवो वसति । अत: शाश्वताभिधाने ते क्षेत्रे । तत्र मेरोरुत्तरस्यां उत्तराः कुरवः गन्धमादनमाल्यवतोर्गजदन्तयोरन्तरे ज्ञेयाः । दक्षिणस्यां पुनर्देवकुरवः विद्युत्प्रभसौमनसयोर्गजदन्तयोरन्तराले । अत्र पूर्वापरविदेहेषु प्रत्येकं षोडश षोडश विजया विराजन्ते तथाहि-इमे विदेहास्तावत् क्रमशो द्विधाभावमिता: तद्यथा पूर्वविदेहेषु शीताभिधाना वक्ष्यमाण स्वरूपा नदी । तया च पूर्वविदेहा द्विधा विहिता । एवमपरविदेहाः शीतोदया । तत्र शीतोत्तरतटे तिसृभिरन्तर्नदीभिश्चतुभिर्वक्षकाराचलैः कृतसीमानोऽष्टौ विजयाः सन्ति । एवं शीताया दक्षिणतटेऽपि तावन्तः । एवं षोडश । तथै व शीतोदाकुलयोरपि प्रत्येकमष्टावष्ट वाच्याः । तत्स्वरूपं चेदम् । प्रथमं तावन्माल्यवदाख्यगजदन्तगिरिपूर्वतः कच्छाभिधानो विजयः । तत्पूर्वदिगन्ते सीमाकृच्चित्रनामा नगः । ततः परं सुकच्छाभिधो द्वितीयो विजयः; तत्पूर्वान्ते सीमाकारिणी गाहावती नामान्त दी । तत: परं महाकच्छसंज्ञस्तृतीयो विजयः, तत्सीमाकारी ब्रह्मकूटाभिधो गिरिः । ततः परं कच्छावती नामा तुर्या विजयः, तत्सीमाकारिणी हृदावती

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154