SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ४० सटीकजंबूद्वीपसङग्रहणी हिमवत् क्षेत्र वृत्त वैताढ्य शब्दापाती E=रोहितांशा ==== रोहिता -HEED हरिः सूर्याचन्द्रमसौ तद्वद्ववन्त: मनुष्या यत्र वर्षे इति हरिवर्षनामक्षेत्रां हरिवषनामा महर्घिकः सुरः सन्तिष्ठतेऽतो वा तन्नामक्षेत्रम् । इदं च महाहिमवदुत्तरदिग्भागस्थितम् । इति हरिवर्षस्वरूपम् । स्थापनैषा । चित्राङ्क : ५ हरिवर्ष क्षेत्र वृत्त वैताढ्य गन्धापाती FEहरिकान्ता EEEE--- ---हरिसलिला EES सर्वेम्यः क्षेत्रेभ्यो महाविस्तीणक्षेत्रदेहत्वात् त्रिकोशं देहनरवत्त्वान्मह। विदेहाख्यमहर्धिकदेवस्थानत्वाच्च महाविदेह ति क्षेत्रं नाम शाश्वतम् । तन्महाविदेहक्षेत्रं चतुर्धा । तथाहि मेरोः प्राच्यं पूर्वमहाविदेहाः, प्रतीच्यां च पश्चिममहाविदेहाः, दक्षिणात्यं देवकुरुक्षेत्रं, उदीच्यां चोत्तरकुरवः । तत्रोत्तरकुरुषु उत्तरवुवभिधो देवकुरुषु देवकुर्वभिख्यो देवो वसति । अत: शाश्वताभिधाने ते क्षेत्रे । तत्र मेरोरुत्तरस्यां उत्तराः कुरवः गन्धमादनमाल्यवतोर्गजदन्तयोरन्तरे ज्ञेयाः । दक्षिणस्यां पुनर्देवकुरवः विद्युत्प्रभसौमनसयोर्गजदन्तयोरन्तराले । अत्र पूर्वापरविदेहेषु प्रत्येकं षोडश षोडश विजया विराजन्ते तथाहि-इमे विदेहास्तावत् क्रमशो द्विधाभावमिता: तद्यथा पूर्वविदेहेषु शीताभिधाना वक्ष्यमाण स्वरूपा नदी । तया च पूर्वविदेहा द्विधा विहिता । एवमपरविदेहाः शीतोदया । तत्र शीतोत्तरतटे तिसृभिरन्तर्नदीभिश्चतुभिर्वक्षकाराचलैः कृतसीमानोऽष्टौ विजयाः सन्ति । एवं शीताया दक्षिणतटेऽपि तावन्तः । एवं षोडश । तथै व शीतोदाकुलयोरपि प्रत्येकमष्टावष्ट वाच्याः । तत्स्वरूपं चेदम् । प्रथमं तावन्माल्यवदाख्यगजदन्तगिरिपूर्वतः कच्छाभिधानो विजयः । तत्पूर्वदिगन्ते सीमाकृच्चित्रनामा नगः । ततः परं सुकच्छाभिधो द्वितीयो विजयः; तत्पूर्वान्ते सीमाकारिणी गाहावती नामान्त दी । तत: परं महाकच्छसंज्ञस्तृतीयो विजयः, तत्सीमाकारी ब्रह्मकूटाभिधो गिरिः । ततः परं कच्छावती नामा तुर्या विजयः, तत्सीमाकारिणी हृदावती
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy