Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 65
________________ २८ सटीकजंबूद्वीपसग्रहणी दशसहस्राणि सुरगिरेविशालत्वं योजनानां, चतुश्चत्वारिंशत्सहस्राणि योजनानां भूमिष्ठस्य भद्रशालवनस्य पूर्वापरस्थितेरायतिः । सर्वेषामेषां योजनानां संकलने क्षमेकं जंबुद्वीपस्यायामो भवति । वक्ष्यमाणविदेहवर्षस्यापि अयमेवायामोऽभ्यूहयतामिति ।। अत्र ते खण्डा नवत्युत्तरैकशतं कथं भवन्तीति शिष्यशङ्कानिरासार्थमाह । अहविग खंडे भरहे दो हिमवंते हेमवइ चउरो । अट्ठ महाहिमवंते सोलस खंडाई हरिवासे ॥४॥ बत्तीस पुण निसट्टे मिलिया तेसट्ठी बीयपासेवि । चउसट्ठीओ विदेहे तिरासी पिंडेहिं णउयसयं ।।५।। अहेत्यादि । अहत्ति अथेत्यानन्तयें, इगखंडेत्ति एकखण्डो, भरहेत्ति भरते १ वर्षधरक्षेत्रे, हिमवंते द्वौ खण्डौ, हिमवन्नाम्नि वर्षधरपर्यते २ चउरोत्ति चत्वारो हेमवइत्ति हिमवन्नाम्नि युगलिकवर्षधरक्षेत्रे ४ अदृत्ति अष्टौ च महाहिमवंतेत्ति महाहिमवन्नाम्नि वर्षधरपर्वते ८ सोलसत्ति षोडश खंडाइ खण्डा हरिवासेत्ति हरिवर्षनाम्नि युगलिकवर्षधरक्षेत्रे १६ ॥४॥ बत्तीस द्वात्रिंशत्पुनर्निषधनामकवर्षधरपर्वते ३२ सर्वे सङ्ख्यया मिलियत्ति मिलिताः तेसट्ठित्ति त्रिषष्ठिसङ्ख्याका: खण्डा ज्ञेयाः । एवमेव बीयपासेवित्ति द्वितीयपार्श्वे ऽपि त्रिषष्टिसङ्ख्याका ज्ञेयास्तथाहि एक ऐरवते १ द्वौ शिखरिणि २ चत्वार ऐरण्यवते ४ अष्टौ रूपिणि ८ षोडश रम्यकि १६ द्वात्रिंशन्नीलवति ३२ एवमेते त्रिषष्टिः । चउसडीओत्ति चतुःषष्टिश्च विदेहेत्ति विदेहे तिरासि पिंडे हिंति त्रयाणां राशीनां, त्रिषष्टित्रिषष्टिचतुःषष्ठीनां पिप्डै : समुदितैः णउअसयंति नवत्युत्तरं शतं खंडानामिति शेषः । भावार्थः स्थापनागम्यश्च यदत्तं - "........ तत्र भरतमेकभागमितं भवेत् । इतः स्थानद्विगुणत्वात् द्वौ भागौ हिमवगिरेः, ॥ हैमवतं च चत्वारोऽष्टौमहाहिमवगिरेः । . षोडशांशा हरिवर्ष, द्वात्रिंशन्निषधाचलः, || विदेहाश्च चतुषष्टिात्रिंशन्नीलवान्नगः । षोडशांशा, रम्यकाख्यं, भागा रुक्मी नगोऽष्ट च, । चत्वारो हैरण्यवतं, द्वौ भागौ शिखरिगिरिः ॥ एक ऐरवतक्षेत्रम् । नवत्या च शतेन च । भागैरेवं योजनानां लक्षमेकं समाप्यते ॥"

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154