________________
२८
सटीकजंबूद्वीपसग्रहणी
दशसहस्राणि सुरगिरेविशालत्वं योजनानां, चतुश्चत्वारिंशत्सहस्राणि योजनानां भूमिष्ठस्य भद्रशालवनस्य पूर्वापरस्थितेरायतिः । सर्वेषामेषां योजनानां संकलने क्षमेकं जंबुद्वीपस्यायामो भवति । वक्ष्यमाणविदेहवर्षस्यापि अयमेवायामोऽभ्यूहयतामिति ।। अत्र ते खण्डा नवत्युत्तरैकशतं कथं भवन्तीति शिष्यशङ्कानिरासार्थमाह ।
अहविग खंडे भरहे दो हिमवंते हेमवइ चउरो । अट्ठ महाहिमवंते सोलस खंडाई हरिवासे ॥४॥ बत्तीस पुण निसट्टे मिलिया तेसट्ठी बीयपासेवि ।
चउसट्ठीओ विदेहे तिरासी पिंडेहिं णउयसयं ।।५।। अहेत्यादि । अहत्ति अथेत्यानन्तयें, इगखंडेत्ति एकखण्डो, भरहेत्ति भरते १ वर्षधरक्षेत्रे, हिमवंते द्वौ खण्डौ, हिमवन्नाम्नि वर्षधरपर्यते २ चउरोत्ति चत्वारो हेमवइत्ति हिमवन्नाम्नि युगलिकवर्षधरक्षेत्रे ४ अदृत्ति अष्टौ च महाहिमवंतेत्ति महाहिमवन्नाम्नि वर्षधरपर्वते ८ सोलसत्ति षोडश खंडाइ खण्डा हरिवासेत्ति हरिवर्षनाम्नि युगलिकवर्षधरक्षेत्रे १६ ॥४॥ बत्तीस द्वात्रिंशत्पुनर्निषधनामकवर्षधरपर्वते ३२ सर्वे सङ्ख्यया मिलियत्ति मिलिताः तेसट्ठित्ति त्रिषष्ठिसङ्ख्याका: खण्डा ज्ञेयाः । एवमेव बीयपासेवित्ति द्वितीयपार्श्वे ऽपि त्रिषष्टिसङ्ख्याका ज्ञेयास्तथाहि एक ऐरवते १ द्वौ शिखरिणि २ चत्वार ऐरण्यवते ४ अष्टौ रूपिणि ८ षोडश रम्यकि १६ द्वात्रिंशन्नीलवति ३२ एवमेते त्रिषष्टिः । चउसडीओत्ति चतुःषष्टिश्च विदेहेत्ति विदेहे तिरासि पिंडे हिंति त्रयाणां राशीनां, त्रिषष्टित्रिषष्टिचतुःषष्ठीनां पिप्डै : समुदितैः णउअसयंति नवत्युत्तरं शतं खंडानामिति शेषः । भावार्थः स्थापनागम्यश्च यदत्तं -
"........ तत्र भरतमेकभागमितं भवेत् । इतः स्थानद्विगुणत्वात् द्वौ भागौ हिमवगिरेः, ॥ हैमवतं च चत्वारोऽष्टौमहाहिमवगिरेः । . षोडशांशा हरिवर्ष, द्वात्रिंशन्निषधाचलः, || विदेहाश्च चतुषष्टिात्रिंशन्नीलवान्नगः । षोडशांशा, रम्यकाख्यं, भागा रुक्मी नगोऽष्ट च, । चत्वारो हैरण्यवतं, द्वौ भागौ शिखरिगिरिः ॥ एक ऐरवतक्षेत्रम् । नवत्या च शतेन च । भागैरेवं योजनानां लक्षमेकं समाप्यते ॥"