Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 70
________________ सटीकजंबूद्वीपसमहणी ३३ स व्याया सङ्गमयेत् । तदा त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतिर्योजनानां (३१६२२७) भवति । अथ शिष्टाकेन न कापि सङ्ख्या सङ्गच्छति यतः पूर्वोक्तशून्यानि रिक्तानि । तथा वर्गमूलाङ्को द्विगुणीकृतः षड्लक्षद्वात्रिंशत्सहस्रचतुशतचतुष्पञ्चाशत्सङ्ख्या (६३२४५४) जायते । तया पूर्वोक्तसडख्याया भागा न गच्छति । अतः शेषसडख्याकस्य योजनस्य कोशा: कार्यास्तथाहि चत्वारै : कोशैर्योजनं भवत्यतः शिष्टाङ्कचतुर्गुणः कार्यः । तद्यथा चतुःशतैकसप्तत्यधिकचतुरशीतिसहस्रोत्तरचतुर्लक्षाणि (४८४४७१) शिष्टाङ्कः । स चतुर्गुणीकृतः अष्टशत चतुरशीत्यधिकसप्तत्रिंशत्सहस्रोतैरकानविंशतिर्लक्षाणि (१९३७८८४) कोशानां जायते । तां द्विगुणीकृतवर्गमूलाङ्केन शोधयेत् । तथाहि स वर्गमूलाङ्कस्त्रिगुणीकृत: अष्टादशलक्षसप्तनवतिसहस्रत्रिंशतद्विषष्टि (१८९७३६२) जायते । तया पूर्वाङ्कन विभज्यात् तदा चत्वारिंशत्सहस्रपञ्चशतद्वाविंशतिः(४०५२२) कोशानां शिष्टा भवन्ति । अथ वर्गमूलाङ्कः त्रिलक्षषोडशसहस्रद्विशतसप्तविंशतियोजनानि(३१६२२७)त्रयः(३) काशाश्च जायन्ते । अथ शिष्टकोशसख्या द्विगुणीकृतवर्गमूलाङ्केन भागं नाप्नोत्यः कोशानां धनूंषि कार्याणि । तथाहि द्विसहस्रैर्धनुभिः कोशो जायतेऽतः शिष्टाङ्को द्विसहस्रगुणः कार्य: । तथा च चतुश्चत्वारिंशत्सहस्त्राधिकदशलक्षोत्तरा अष्टकोटय: (८१०४४०००) धनुषां जायन्ते । ततः द्विगुणीकृतये।जनवर्गमूलसङ्ख्यया शोधयेत् तथाहि द्विगुणीकृतवर्गमूलसङ्ख्याऽष्टाविंशत्युत्तरै कशतगुणी कुर्यात् । तथा च अष्टकोटिनवलक्षचतुष्पञ्चाशत्सहस्रैकशतद्वादश सङ्ख्या (८०९५४११२) जायते । तया च पूर्वाङ्को विभज्यात् । तथा चेकाननवतिसहस्राष्टशताष्टाशीतिः (८९८८८) शेषा जायते । मूलाङ्केन सहाष्टाविंशत्युत्तरैकशतं धनुषां स्थापनीयं । अथ शिष्टधनुषामङ्गुलानि कार्याणि । तथाहि चतुर्भिर्हस्तैरेकं धनुः चतुर्विशतिरभिङ्गलैश्च (२४) एका हस्तस्तथा च षण्णवतिभिरजुलैरेकं (९६) धनुर्जायते । ततः शिष्टाङ्कः षण्णवतिगुणीकृते षडशीतिलौकोनत्रिंशत्सहस्रद्विशताष्टचत्वारिंशत्सङ्ख्याङ्गुलानां (८६२ ९२४८) जायते । तां द्विगुणीकृतवर्गमूलाङ्केन (६३२४५४) शोधयेत् । तथाहि वर्गमूलाङ्के‘सार्धत्रयोदशगुणीकृते (१३।।) पञ्चाशीतिलक्षाष्टत्रिंशत्सहस्रैकशतैकोनविंशतिसङ्ख्या (८५३८११९) जायते । तया पूर्वाङ्के भग्ने एकनवतिसहस्रैकोनविंशतिसङ्ख्या (९१११९) शिष्टाङ्गलानां जायते । अथ च मूलाङ्केन सह सार्धत्रयोदशाङ्गुलानि (१३॥) स्थाप्यानि । ततः शिष्टाङ्गुलानां यवाः कुर्यात् । तथा चाष्टाभिर्यवैरेकमङ्गुलं जायतेऽतः शिष्टाङ्गुलानि अष्टगुणीकृतानि सप्तलक्षाष्टाविंशतिसहस्रनवशतद्विपञ्चाशद्यवानां (७२८९५२) जायन्ते । तान् वर्गमूलाङ्केन शोधयेत् । तदा एको यो भागमायाति । ततः वर्ग मूलाइसङ्ख्या यवसङ्ख्यातो हापिता सती षण्णवतिसहस्रचतुःशताष्टानवतिसङ्ख्या (९६४९८) यवानां वर्धते । वर्गाङ्कन सहैको यवः स्थाप्यः । अथ शिष्टयवानां

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154