Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 66
________________ सटीकजंबूद्वीपस ग्रहणी '२२ स्थापना चेयम् । खंड १ भरतक्षेत्रे १ ऐरवति क्षेत्रे ६४ विदेहे २ हिमवति गिरौ २ शिखरिणि गिरौ १९० ४ हिमन्ति क्षेत्रे - ४ हिरण्यवति क्षेत्रे ८ महाहिमवति गिरौ ८ रूपीपर्वते १६ हरिवर्षक्षेत्रे १६ रम्यक्षेत्रे ३२ निषधगिरौ ३२ नीलवति नगे एवं च सर्वसङख्यागणने जंबुद्वीपप्रमाणं भवति । आविदेहं भरतहिमवदादीनां व्यासः स्थानद्विगुणितं ज्ञेयः । ततः परं रोहावरोहन्यायेन अर्धाधहानित: नीलवद्ररम्यगादीनां व्यासावसेयः । तथाहि षड्विंशत्युत्तरपंचशती षट्कलाधिका योजनानां भरतप्रमाणं, द्विगुणं तत् द्विपञ्चाशदु त्तरै कसहस्री द्वादशकलाधिका हिमवगिरिप्रमाणं, तद्विगुणं, द्विसहस्रैकशतपञ्चसख्ड्या पञ्चकलाधिका हिमवत्क्षेत्रप्रमाणं, तद्विगुण चतुःसहस्राधिकद्विशतदशस ख्या दशकलाधिका महाहिमवगिरिप्रमाणं, तदपि द्विगुणं चतु:शतैकविंशत्याधिका अष्टसहस्री एक कलायुता हरिवर्षक्षेत्रप्रमाणं, द्विगुणं तद् अष्टशत द्वाचत्वारिंशदधिका षोडशसहस्री द्विकलाधिका निषधनगप्रमाणं, तद्विगुणं षट्शतचतुशीत्यधिका त्रयस्त्रिंशत्सहस्री चतुःकलाधिका विदेहप्रमाणं, ततोऽधैं नीलवतो नगस्य निषधतुल्यं ततोऽप्यधं रम्यक्क्षेत्रस्य हरिवर्षतुल्यं, ततोऽधं रूपिणो महाहिमवत्तुल्यं, एवमेव तदर्धं हिमवत्क्षेत्रतुल्यं ऐरण्यवद्वर्षस्य, तदर्धं हिमवन्नगनिभं शिखरिणः तदर्धं च भरततुल्यं ऐरवतक्षेत्रस्येति मीलिताः सर्वसङ्ख्या एकलक्षां भवति । सङ्ग्रहगाथाश्चमाः स्थानाङ्गटीकोक्तः " पंचसए छब्बीसे छच्च कला वित्थडं भरहवासं । दससय बावन्नहिया बारसयं कलाओ हेमंते ॥ हेमवए पंचहिया इगवीससयाउ पंच य कला । दसहिय बायालसया दस य कलाओ महाहिमवे ॥ हरिवासे इगवीसा चुलसीइ कला य इक्काय । सोलस सहस्स अट्ठ य बायाला दो कला निसढे ॥ तेत्तीसं च सहस्सा छच्च सया जोयणाण चुलसीइ । चउसेय कला सकला महाविदेहस्स विक्खंभो ॥"

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154