Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपसङ्ग्रहणी
कुर्वाख्याः षडकर्मभूमयः । तथाऽत्र जंबूद्वीपे षड्वर्षधरपर्वताः, महाविदेहतो दक्षिणदिशि हिमवन्महाहिमवन्निषधाख्यास्त्रयः, उदग्दिशि च शिखरिरुक्मिनीलवदभिधास्त्रयः इति । तत्र हिमवच्छिखरौ च तुल्यरुपावमिहितौ महाहिमवद्रुक्मी च मिथः समौ, निषधनीलवन्तौ समस्वरूपाविति । लोकमध्यनाभिः मेरुर्निरुपम एकश्च । भरतैरवतद्वात्रिंशद्विजयेषु च प्रत्येकमेकैको वैताढयस्तथा चैते चतुस्त्रिंशत् । सर्वेऽप्येते रूप्यरूपाः । एवमिह चत्वारो वृतवैताढयाः मिथस्तुल्यरूपाः, हैमवतहरिवर्षहैरण्यवतरम्यकस्थाः शब्दापातिगन्धापातिविकटापातिमाल्यवदाख्याः । तत्र हैमवते शब्दापाती, हरिवर्षे गन्धापाती, हैरण्यवते विकटापाती, रम्यके च माल्यवानिति । एवमत्र देवोत्तरकुरुस्थेषु दशसु हदेषु प्राच्या प्रतीच्यां च प्रत्येकं दशदशकाञ्चनाचलाः । सर्वेऽप्येते समस्वरूपाः, एवञ्चैते द्वेशते काञ्चनगिरयः । एवं उत्तरकुरुसीमाविधायिनी गन्धमादनमाल्यवदाख्यौ पीतरत्नतपनीयजौ द्वौ गजदन्तौ । एवं देवकुरुसीमाकारिणावपि सौमनसविद्युत्प्रभाभिधौ रूप्यवैडूर्यमयौ गजदन्तौ । विजयान्तरिताः चित्रकूट १ ब्रह्मकूट २ नलिनीकूटै ३ कशैलकूट ४ त्रिकूट ५ वैश्रमणकूटा ६ जन ७ मातञ्जना ८ ड्कापाति ९ पक्ष्म (पद्मा) पात्या १० शीविष ११ सुखावह १२ चन्द्र १३ सूर १४ नाग १५ देवा १६ भिधाः षोडशवक्षस्कारधराधराः । ननु विजयान्तरास्तु अष्टाविंशतिर्भवन्ति, तत्कथं षोडशेति चेत्सत्यं, शेषेषु द्वादशस्वन्तरेषु अन्तर्नदीनां भावात् । तथाहि पूर्वविदेहेषु अपाक्काष्ठायां प्रथममेको विजयस्ततो वक्षस्कारस्ततो विजयस्ततोऽन्तनदी ततो विजयस्ततो वक्षस्कारस्ततो विजयस्ततोऽन्तैर्नदी ततो विजयस्ततो वक्षस्कारस्ततो विजयस्ततोऽन्तर्नदी ततो विजयस्ततो वक्षस्कारस्ततो विर्जयः इत्ये. वमष्टौ विजयास्तिस्रोऽन्तनद्यः चत्वारश्च वक्षस्काराः। एवं पूर्वावदेहेषूदगाशायामपि तावन्तो विजयास्तावन्त्योऽन्तनद्यस्तावन्तश्च वक्षस्कारनगाः । तथैव सर्वं अपरविदेहेष्वप्यवसेयम् । तथा च द्वात्रिंशद्विजयाः द्वादशान्तनद्यः षोडश च वक्षस्कारा इति सिद्धं । एवं देवकुरुषु शीतोदापूर्वा परकूलयोश्चित्रविचित्राभिधौ धरणीधरौ समस्वरूपौ। एवमुत्तरकुरुषु शीतापूर्वपश्चिमकूलयोर्यमकसम काभिख्यावचलावपि तुल्यरूपौ । एवमेते षड्वर्षधरा ६ एको मेरुः १ चतुस्त्रिंशदायतवैताढयाः ३४ चत्वारो वृत्तवैताढया ४ द्वेशते काञ्चनाचलाः २०० चत्वारो गजदन्ताः ४ षोडश वक्षस्कारा १६ द्वौ चित्रविचित्रौ २ द्वौ यमकसमकौ २ चेति ।
" एकोनसप्तत्यधिके द्वेशते च धराधराः ।
इह द्वीपे त्वभिहिता, भव्येभ्यो विश्ववेदिभिः ॥१॥" अथेह आयतेषु चतुस्त्रिंशति वैताढयेषु प्रत्येकं नवनवकूटान्याख्यातानि । सर्वसङ्ख्यया षडुत्तराणि त्रीणि शतानि कूटानां वैताढयेषु । एतेषु मध्यं कूटत्रयं सुवर्णमय, शेषाणि तु रत्न

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154