Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ सटीकजंबूद्वीपसङ्ग्रहणी १३ 'चक्कीजेयब्वाई' इत्यादि इत्यष्टमम् ॥८॥ दहत्ति पद्माद्या हृदाः कियन्तो यदभिधास्यति 'महदह छप्पउमाइं ' इत्यादि इति नवमम् ॥९॥ सलिलाओत्ति गङ्गासिन्ध्वाद्याः सरितः कियत्यो यत्प्रतिपादयिष्यति 'गंगासिंधू रत्ता रत्तवई चऊनईओ पत्तेयं ' इत्यादि इति दशमम् ॥१०॥ चकारस्यानुक्तसमुच्चायकत्वात् सरितां विशालत्वं, नगानां वर्णोच्चत्वावगाढत्वाद्यपि बोध्यम् , यद् वक्ष्यति 'छजोयणसकोसे गंगासिंधूणवित्थरो मूले ' इत्यादि 'जोयणसयमुच्चिट्ठाकणयमयासिहरिचुल्लहिमवंता' इत्यादि च । सिं एषां पूर्वोक्तानां खण्डयोजनादीनां पदार्थानां पिंडे पिण्डे समुदिते सति होइ भवति संघयणी सग्रहणी जंबूद्वीपपदार्थसङ्ग्रहकर्तृशास्त्रं, अतोऽस्य प्रकरणस्य गुणनिष्पन्नं सङ्ग्रहणीत्यभिधानं ध्वनितं ग्रन्थकृद्भिः इति द्वितीयगाथार्थः । अथ तावत् विधानतः स्वरूपतो लक्षणतो वा विस्तरतोऽभिधास्यमानोऽपि पदार्थसमुदायः विनेयानुग्रहार्थं नाममात्रेण संक्षेपतः सङ्ग्रहीक्रियते । तथाहि - आयामतो व्यासतश्चायं जंबूद्वीपो लक्षयोजनप्रमाणमितः । उद्वेधोत्सेधतश्च साधिकलक्षयोजनप्रमाणः । अयं च द्विगुणमानानेकलवणधातक्यादिपारावारद्वीपवेष्टितपूर्णचन्द्राकृतिः शेषाणि वलयाकृतीनि । जंबूद्धीपादि द्वीपसमुद्राः पुष्करवरद्वीप -कालोदधि :धातकी खंड लवण समुद्र जंबूद्धीप १००००० यो. २००००० ४००००० यो. स८००००० योन AAHASHITA TIMILLLLLLUMIT AntimmittHAR in.IN स्थापना चेयं - प्रमाणयंत्रकं चेदम् जंबूद्वीप : १,००,००० यो. लवणसमुद्र : २,००,००० यो. धातकीखण्ड : ४,००,००० यो. कालोदधिसमुद्र : ८,००,००० यो. LEE८० १६००००० यो. चित्राङ्कः १ अत्र जंबूद्वीपे सप्तक्षेत्राणि विराजन्ते । भरतहैमवतहरिवर्षाख्यानि त्रीणि दक्षिणस्यां, ऐरवत

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154