Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 45
________________ सटीक जंबूद्वीपसङ्ग्रहणी नित्यत्ववादनिरासः सूचितो द्रष्टव्यः तथाहि - एकान्तनित्यत्वे ह्यात्मनोऽप्रच्युतानुत्पन्नस्थिरकरूपत्वेन भिन्नकालक्रियाद्वय कर्तृत्वाभ्युपगमे उत्तरक्रियाकर्त्ताऽऽत्मा पूर्वक्रियाकालेऽस्ति नास्ति वेति, अस्तीति चेत्, पूर्वक्षणे क्रियाद्वयापत्तिः कर्तुः सद्भावात्, नास्तीति चेत्, स्वष्टहानि: उत्तरकालक्रियाभावप्रसक्तिश्च कर्त्तुरभावात् । अतः उत्तरक्रियाकाले पूर्वक्रियाकर्त्तर्विनाश उत्तरक्रियाकर्त चोत्पत्तिः आत्मत्वेन रूपेणात्मनो नित्यत्वमित्यनेकान्तवाद एव विजयते, तस्मिन्नेव सर्वमवदात् । एकान्तानित्यत्वे चात्मनः क्षणविनाशित्वेनोत्तरक्रियाकालेऽभावादुत्तरक्रियानुपपत्तिः, इत्याद्यत्र बहु वक्तव्यम् तत्त नोच्यते ग्रन्थगौरवभयादन्यत्र विस्तृतत्वाच्वेति ॥ क्त्वाप्रत्ययस्य उत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह । 9 ८ जंबुद्वीव पयत्थे बुच्छं सुत्ता सपरहेऊ । वुच्छंति वक्ष्ये, कान् ? जंबुद्वीवपयत्थे इति जंबूद्वीपपदार्थान्, कस्मात् ? सुसत्ति सूत्रात्, किमर्थं : सुपरहेऊंति खपरहेतोः इत्यक्षरघटना । www "" वुच्छंति वचिधातोर्भविष्यत्यर्थे मि प्रत्यये विहिते म्यन्तस्य स्थाने “ श्रु - गमि-रुदिविदि - दृशि मुचि-चि-छिदि - भिदि - भुजां सोच्छं-गच्छं-रोच्छं-वेच्छं दच्छं-मोच्छं-वोच्छंछेच्छं-भेच्छं भोच्छं ' ८-३-१७१ इति वोच्छमादेशे हूखः संयोगे ८-१-८४ इति ह्रस्वे च वुच्छमिति, वक्ष्ये प्रतिपादयिष्यामि, अहं इति शेषः कर्त्रभिधानं च शास्त्रान्ते स्वयमेत्र वक्ष्यति ग्रन्थकारो भगवान् हरिभद्रसूरिः । सकर्मिकायाः क्रियायाः कर्मसापेक्षत्वादाह, जंबुद्वीवेति । नीलवत् पर्वतस्य दक्षिणदिग्भागस्थेन मेरोरुदीचीस्थितेन तथा माल्यवदाख्यगजदन्तस्य पश्चिम दिशास्थेन सीताख्यमहानद्याः पूर्वतटस्थेनोत्तरकुरुनामकयुगलिक क्षेत्रस्थेन सुदर्शनादि यथार्थ - द्वादशपर्यायालङ्कृतेन, शाश्वतानेकजिन चैन्यलघुजंबूवृक्षवलयपरिकरितेन शाश्वतेन जंबूवृक्षेणोपलक्षितो द्वीपो जंबूद्वीप: । द्वादशपर्यायाश्च मे शुभदर्शनात् सुदर्शनः १ अनिष्फलत्वादमोघः २ मणिरत्नबद्धपीठत्वात् सुप्रतिबद्धः ३ यशोधारकत्वाद् यशोधरः ४ जंबूद्वीपाख्यविस्तारकत्याद्विदेहजंबूः ५ मनःप्रीतिकारित्वात् सौमनसः ६ शाश्वताभिख्यत्वान्नित्यः ७ अनादिनिधनमण्डनवत्त्वान्नित्यमण्डित ८ कल्याणकारित्वात् सुभद्रः ९ विस्तीर्णत्वाद्विशाल: १० सुनिष्पन्नरूपत्वात् सुजात: ११ मनःशुभकारित्वात् सुमनाः १२ भिन्नक्रमेणैतान्येवाभिधानानि प्रोक्तान्यन्यत्र तथाहि . " नामानि द्वादशैतानि प्रज्ञप्तानि जिनेश्वरः । -- सुदर्शना १ तथाऽमोघा २ सुप्रबुद्धा ३ यशोधरा ४ ॥ भद्रा ५ विशाला ६ सुमनाः ७ सुजाता ८ नित्यमण्डिता ९ । विदेहजंबू १० र्नियता १९ सौमनस्येति १२ कीर्त्तिता ॥ גי

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154