Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपसग्रहणी
अत्र वृक्षे प्राग्भवे जंबूस्खामिपितृव्यः जंबूद्वीपाधिष्ठाताऽनादृताभिधः पल्यायुष्कः सुरः सन्तिष्ठसे, अयं च महर्धिकः मेरोरुदीच्यामपरस्मिजंबूनाम्नि द्वीपेऽनादृताभिधायां नगर्या साम्राज्यं पालयति, तस्य च चतुःसहस्रसामानिकसुराः । उक्तञ्च उत्तराध्ययनस्य एकादशे वहुश्रुताध्ययने - [गाथा - २७.]
" जहा सा दुमाण पवरा, जंबू नाम सुदंसणा।
अणाढियस्स देवस्स, एवं भवइ बहुस्सुए ॥२७॥ अतो जंबूरिति शाश्वतं नाम गीयते पूर्वसूरिभिः, अस्य च द्वीपस्य तिर्यग्विस्तारः लक्षयोजनानि वक्ष्यति च ग्रन्थकारो “ हवइ लक्ख " मिति, उच्चत्वं चास्य योजनानां सहस्राणि नवनवतिः साधिकानि, उद्वेधश्च योजनानां सहस्रकं, उच्छ्रयोद्वेधयोगे ऊर्ध्वाधोमानतः साधिकं योजनानां लक्षमेकम् । ननु तदीयं उद्वेधोच्छ्यत्वं तु तस्य तत्र तत्र तथाव्यवहारादेव भवति, न तु यथाकथञ्चित् । यथा जलाशयस्य, इयानस्य जलाशयस्योद्वेधः इयच्चोच्छ्यत्वं सर्वत्र जलाशय इति व्यवहारस्याबालगोपालप्रसिद्धेरेवं शैलादावपि । न चाय व्यवहारो जंबूद्वीपस्य प्रसिद्ध इति चेन्मैवं, अत्रापि तद्व्यवहारस्य समयसम्मतत्वात् । समयसम्मतत्वं चैवं तथाहि - उद्वेधस्तावदेवं इदमीयमेरोरवगाढः योजनानां सहस्रकं, तथा च तत्रस्थमेरोरंशः, कस्य द्वीपस्येति प्रश्न जंबूद्वीपस्येति व्यवहारसम्भवात् , किञ्च – समभूतलात् प्रतीच्यां हीयमानायाः भुवः धर्मायां सहस्रयोजनोद्वेधवत्त्वात् तादृशी च सा द्वयोर्विजययोः यदुक्तं
" हीयमाना प्रतीच्यां भूर्घर्मायां समभूतलात् । . सहस्रयोजनोड्डांते स्यात् क्रमाद्विजयद्वये ॥"
तयोश्चाधोलौकिकाः प्रामाः सन्ति, तेषु च कस्य द्वीपस्येमे ग्रामा इति पर्यनुयोगे जंबूद्वीपस्येत्येवमेव व्यवहार इति तावानस्योद्वेध उच्यते । उच्छ्रयस्य समयसम्मतत्वं चैवं, जंबूद्वीपभरतैरवतविदेहसम्भवानां तीर्थकृतां वक्ष्यमाणस्वरूपसुरगिरिपाण्डुकवने पाण्डुकम्बलादिशिलासिंहासनेऽभिषेकः विधीयते, ततस्तत्रापि जंबूद्वीपव्यवहारः सुष्ठु संम्भाव्यते, किञ्च पाण्डुकवनस्थचूलिकारूपमेशे जंबूद्वीपसुरगिरिचूलेति व्यवहारस्य सम्मतत्वात् उच्छ्रयस्य तावत्त्वं, तात्त्विकैरवितथमेव प्रज्ञप्तमभिहितं च जंबूद्वीपप्रज्ञप्त्यां -
" एगं जोयणसहस्सं उव्वेहेणं, णवणउत्ति जोयण सहस्साई । __ साइरेगाइं उर्दू, उच्चत्तेगं साइरेगं जोयणसयसहस्सं सव्वग्गेणं पन्नत्तेत्ति ।" जंबूद्वीपस्य पदार्थाः - वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदं' वाचकः शब्द

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154