Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एतेन
तथा
सटीक जंबूद्वीपसग्रहणी
" ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ १ ॥
""
" यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥२॥ परित्राणाय साधूनां विनाशाय सुदुष्कृताम् । धर्मसंस्थापनार्थञ्च सम्भवामि युगे युगे ॥३॥
99
इत्यादि इह कैश्चिदभिमन्यते तद्व्यवच्छेदो द्रष्टव्यः, तन्निरासप्रकारश्च—
" दडूढंमि जहा बीए ण होंति पुणरंकुरस्स उप्पत्ती ।
तह चेत्र कम्मबीए भवंकुररसापि पडिकुट्ठा ॥
"
जगतः भव्यसमूहस्य पूज्यः सेव्यः तं - ' कगटडतदपशषस कर पामूर्ध्वं लुक् ८-२-७७ । ' इति तलुकि, ' अधो मनया 'मिति ८-२-७८ । यलुकि च ' अनादी शेषादेशयोर्द्वित्वम् ८-२-८९ । इति जेद्वित्वे जगपुज्जमिति ।
ननु पालकस्येवाभव्यस्यापि पूज्या एव भगवन्तस्तत्कथं भव्यसमूहस्येति विवरणमिति चेत्, सत्यं, इह भावपूजाया एवाधिकृतत्वादभव्यस्य भावपूजायाश्च अभावात् । ननु यः सर्वज्ञः स पूज्य एव तत्कथं जगत्पूज्यत्वेनेति, न, ज्ञानानन्तरमेव विशिष्टाया पूजाया उत्पत्तेर्नतु ज्ञानात् प्राक् इति, तथा च
" ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥ " इति वचो युक्तिरिक्त ॥ तथा जगत्पूज्यत्वे कृतकृत्यत्वाद् भगवत उपदेशदानाप्रवृत्तिरित्याशङ्कानिरासायाह जगद्गुरु ं ति । भव्यत्रातस्य गृणाति धर्मं यः स जगद्गुरुस्तं । ननु कृतकृत्यत्वाद् भगवतः कथं देशनायां प्रवृत्तिरिति चेत् ? तीर्थंकरनामकर्मोदय निबन्धनप्रवृत्तेः, उक्तञ्च–
जगतः
" तं च कहं वेइज्जइ अगिलाए धम्मदेसणाएर्हिति । "
अनेन च विशेषणचतुष्टयेन भगवतो मूलातिशयाश्चत्वारः ख्यापिताः । तथाहि जिनमित्यनेनापायापगमातिशयः १, सर्वज्ञमित्यनेन ज्ञानातिशयो २, जगत्पूज्यमित्यनेन पूजातिशयः जय द्विवे
१

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154