Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 9
________________ ॥ अहम् ॥ 'नमो नमः श्रीप्रभुधर्मसूरये। प्रस्तावना। न खलु बुधमानिनोऽप्यन्यशास्त्रविहितयथोचितप्रयत्ना अपि विचक्षणाः प्रायः प्रभविष्णवोऽवगाहितुं दुस्तरमपारमाईतप्रवचनागाधसागरम्, आसतामितरे साधारणमनीपाशालिनो जनाः, इति सुगभीरार्थमपि तत्प्रवचनं सुखेनाधिगन्तुं प्राक्तनैर्भद्रवाहुखामि-वाचकमुख्य-सिद्धसेनदिवाकर-जिनभद्रगणिक्षमाश्रमण-हरिभद्रसूरिहेमचन्द्राचार्यप्रभृतिभिर्दुःषमाररजनिभास्करोपमैराचार्यपुङ्गवैस्तत्साधनभूता अनेके प्रन्या विनिर्मिताः, तेभ्योऽपि तादृशस्योपकारस्यासंभवं विभाव्य परोपकारनिरतमानसैर्भगवद्भिायविशारद-न्यायाचार्य-महामहोपाध्यायश्रीयशोविजयगणिभिरनेके तर्कसिद्धान्तरहस्यपरिपूर्णा विरचिता ग्रन्थाः; किन्तु कालबलेनाधिकाधिकबुद्धिमान्द्यमाविभ्रतामिदानीन्तनजनानामतिदुरधिगमाः संजातास्ते । अतोऽल्पसंस्कृतज्ञानामपि समासतोऽथ च स्फुटतयाऽऽहंतमतप्रतिपादितपदार्थतत्त्वज्ञानमिच्छूनां जनानामल्पायासेन तदवबोधाय तत्त्वार्थाधिगमादिप्रन्थानुपजीव्य सरलभायात्मकोऽयं जनतत्त्वप्रदीपनामा नूतनप्रणाल्या लक्षणप्रदर्शनपुरस्सरं पदार्थतत्वप्रतिपादको ग्रन्थोऽल्पबुद्धिनापि मया सुविख्याताभिधानानां गुरुवर्याणां शास्त्रविशारद-जैनाचार्यश्रीमद्विजयधर्मसूरीश्वराणां, मदीयगुरुभ्रातृणामनल्पशास्त्रविदग्धबुद्धीनामुपाध्यायश्रीमदिन्द्रविजयानां च कृपयाऽवाप्तसामर्थेन प्रणीतः ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 129