________________
॥ अहम् ॥ 'नमो नमः श्रीप्रभुधर्मसूरये।
प्रस्तावना।
न खलु बुधमानिनोऽप्यन्यशास्त्रविहितयथोचितप्रयत्ना अपि विचक्षणाः प्रायः प्रभविष्णवोऽवगाहितुं दुस्तरमपारमाईतप्रवचनागाधसागरम्, आसतामितरे साधारणमनीपाशालिनो जनाः, इति सुगभीरार्थमपि तत्प्रवचनं सुखेनाधिगन्तुं प्राक्तनैर्भद्रवाहुखामि-वाचकमुख्य-सिद्धसेनदिवाकर-जिनभद्रगणिक्षमाश्रमण-हरिभद्रसूरिहेमचन्द्राचार्यप्रभृतिभिर्दुःषमाररजनिभास्करोपमैराचार्यपुङ्गवैस्तत्साधनभूता अनेके प्रन्या विनिर्मिताः, तेभ्योऽपि तादृशस्योपकारस्यासंभवं विभाव्य परोपकारनिरतमानसैर्भगवद्भिायविशारद-न्यायाचार्य-महामहोपाध्यायश्रीयशोविजयगणिभिरनेके तर्कसिद्धान्तरहस्यपरिपूर्णा विरचिता ग्रन्थाः; किन्तु कालबलेनाधिकाधिकबुद्धिमान्द्यमाविभ्रतामिदानीन्तनजनानामतिदुरधिगमाः संजातास्ते । अतोऽल्पसंस्कृतज्ञानामपि समासतोऽथ च स्फुटतयाऽऽहंतमतप्रतिपादितपदार्थतत्त्वज्ञानमिच्छूनां जनानामल्पायासेन तदवबोधाय तत्त्वार्थाधिगमादिप्रन्थानुपजीव्य सरलभायात्मकोऽयं जनतत्त्वप्रदीपनामा नूतनप्रणाल्या लक्षणप्रदर्शनपुरस्सरं पदार्थतत्वप्रतिपादको ग्रन्थोऽल्पबुद्धिनापि मया सुविख्याताभिधानानां गुरुवर्याणां शास्त्रविशारद-जैनाचार्यश्रीमद्विजयधर्मसूरीश्वराणां, मदीयगुरुभ्रातृणामनल्पशास्त्रविदग्धबुद्धीनामुपाध्यायश्रीमदिन्द्रविजयानां च कृपयाऽवाप्तसामर्थेन प्रणीतः ।