________________
जैनतत्त्वप्रदीपेसंवेगादिलिङ्गाभिव्यङ्ग्यत्वे सति निसर्गाधिगमजन्यतत्त्वायश्रद्धानजनकात्मपरिणामरूपत्वम्, शमादिलिङ्गाभिव्यझ्यत्वे सति तत्त्वार्थश्रद्धानजनकविशिष्टात्मपरिणामरूपत्वं वा सम्यग्दर्शनस्य लक्षणम् ।। अथ तादृशलक्षणान्तर्गतनिसर्गाधिगमयोर्कक्षणे प्रदयेते__ अनिवृत्तिकरणरूपत्वम्, परोपदेशानपेक्षत्वं वा निस. गैस्य लक्षणम् । परोपदेशसापेक्षत्वमधिगमस्य लक्षणम् ।
प्रमाणनयरूपविशेषहेतुकत्वे सति जीवादिपदार्थविप. यकयथार्थावगमरूपत्वम्, प्रमाणनयनिमित्तकजीवादितत्रविषयफयथार्थावबोधात्मकत्वम, विषयप्रतिभासित्वे सति आत्मपरिणतिमत् तच्चसंवेदनं वा सम्यग्ज्ञानस्य लक्षणम् ।
भवनिमित्तनिवृत्तिशीलत्वे सति सम्यग्ज्ञानवतो योगव्यापारोपरमकत्वम्, भवनिमित्तनिवृत्तिनिमित्तकत्वे सत्यऽव्यवधानेन मोक्षजनकत्वम्, सावधयोगविरतिरूपत्वं वा सम्यक्चारित्रस्य लक्षणम् ।
एतेषां जीवादिपदार्थानां विशेषेण ज्ञानं नामस्थापना. द्रव्यभावद्वारा, इति तल्लक्षणप्रतिपादनावसर, तत्र
अन्यार्थे स्थितमर्थनिरपेक्षं पर्यायानभिधेयं वस्तुनो. ऽभिधानम्,पर्यायानभिधेयत्वे सति अन्यार्थेऽन्वर्थे वा स्थित सत् तदर्थनिरपेक्षसापेक्षान्यतररूपं वस्तुनोऽभिधानम्, खेच्छानुरूपं वस्तुनोऽभिधानं वा नाम्नो लक्षणम् ।