________________
प्रथमोऽधिकारः
तदर्थवियुक्तत्वे सति तदभिप्रायेण तत्सदृशं यल्लेप्यादिकर्मरूपं तत् स्थापनाया लक्षणम्, यद् सद्भूतार्थशून्यं सत् तद्बुद्ध्या तादृशाकारेण निराकारेण वाऽन्यस्मिनारोपकरणं तद् वा ।
अतीतानागतपरिणामकरणत्वम्, इदानीमसत्त्वेऽपि भूतभविष्यत्परिणाम योग्यत्वं वा द्रव्यस्य लक्षणम् ।
विवक्षित क्रियानुभूतियुक्तत्वम्, विवक्षिततत्तत्क्रियानुभूतियुक्तत्वं वा भावस्य लक्षणम् ।
अथ प्रमाणनयलक्षणः पदार्थाधिगमोपाय इति, सभ्यरज्ञानलक्षणान्तर्गत प्रमाणनय स्वरूप जिज्ञासायां वा तल्लक्षणप्रतिपादनम्, सर्वनयावलम्बिविज्ञानविशेषरूपत्वम्, स्वपरावबोधकत्वे सति ज्ञानस्वरूपत्वं वा प्रमाणसामान्यलक्षणम् ।
तच्च प्रमाणं द्विधा, प्रत्यक्ष-परोक्ष मेदात् । तत्र प्रथमतः परोक्षममाणं लक्षणद्वारा प्रतिपाद्यते - इन्द्रियानिन्द्रियसापेक्षत्वे सति साकारावगमरूपत्वं परोक्षममाणस्य लक्षणम् । प्रत्यक्षलक्षणं त्विदम् -
इन्द्रियानिन्द्रियानपेक्षत्वे सति व्यपगतव्यभिचारपूर्वकसाकारावगमरूपत्वम्, इन्द्रियानिन्द्रियनिरपेक्षत्वे सति आत्मनः साक्षादर्य परिच्छेदात्मकत्वं वा प्रत्यक्षस्य लक्षणम् । परोक्षं द्वेधा, मति श्रुतभेदात् । तत्र - इन्द्रियानिन्द्रियनिमित्तकत्वे सति योग्यदेशावस्थितवस्तुपरिच्छेद रूपत्वं सम्यग्दर्शननः क्षीणाक्षीणदर्शन