Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 7
________________ उत्सर्गोद्गारः। धमेण महता पद्भ्यां गत्वा गूर्जरराष्ट्रतः । काश्यां संस्थापितो येन जैनविद्यालयो महान् ॥१॥ तत्रत्यान् प्रौढपाण्डित्यमण्डितान् पण्डितान् पुनः । जैनधर्म स्फुरत्तनिःसन्देहीचकार यः ॥२॥ यद्देशे विहारेण येन धर्मोपदेशतः । मांसभक्षिनृचेतस्सु रोपितः करुणाकुरः ॥३॥ काशीनरंशप्रामुख्ये सर्वभारतपण्डितः। यः पुनर्भूपयामासे गरिष्ठपदमानतः ॥४॥ हिंसादोपनिरासाय दयाधर्मप्रवृद्धये । वाराणस्यां कृपालुर्यः पशुशालामतिष्ठिपत् ॥५॥ पुरे योधपुरे येन जैनसाहित्यपर्पदम् । उत्पाधोधोपयांचक्रे शिक्षाव्यापारडिण्डिमः ॥६॥ प्रतिग्राम प्रतिपुरं सर्वतः सार्वभाषणः । लोकोपकारकरणं व्रतं यस्यास्ति निश्चलम् ॥७॥ शरत्तुधांशुपीयूपसुन्दराचारसुन्दरः। स श्रीविजयधर्माख्यः सूरिः प्रख्यात एक हि ॥८॥ यत्किञ्चिदुन्नतिं प्राप्तो मादृशोऽपि जडाशयः। तत्र हेतुर्न कोऽप्यस्ति त्वत्प्रसादिदृशं विना ॥६॥ गुरो त्वत्कृपयवाऽहमियती प्रापितो भुवम् । त्वहणाद् मुक्तमात्मानं कत्तुं नैवास्मि शक्तिमान् ॥१०॥ उत्सृजामि तथाऽप्येतत् किश्चित् त्वत्करपङ्कजे । मन्ये चातो निजं जन्म कृतार्थीभूतमंशतः ॥१२॥ मङ्गलविनयः।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 129