Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 36
________________ श्रीभगवन्नाम कौमुदी | १७ शाब्दभावनाऽऽत्मकविधिविरहात्कार्यविरहादिति वाऽर्थः । श्रविधित्वप्रसङ्गादिति । श्रविधायकत्वप्रसङ्गादित्यर्थः । द्वितीयपक्षावलम्बनेन वैषम्यं शङ्कते - नन्विति । तत्र पूषादिवाक्येष्वित्यर्थः । तद्वाच्यमिति । शाब्दी भावना कार्य वा, कथं गम्यतेऽत श्राह - कालत्रयेति । भूतभवियद्वर्तमानकालत्रयसंबन्धे हि विधिर्न घटतेऽत उक्तं- कालत्रयानवच्छिन्नेनेति । विधिकल्पनादिति । शाब्दभावनायाः कार्यस्य वा कल्पनादित्यर्थः । इह त्विति । नामकोर्तनवाक्येष्वित्यर्थः । तदिति । लिङ्वाच्यमित्यर्थः । इतिशद्वो हेतौ । श्रविधित्वम् = श्रविधायकत्वम् । साम्यंन समाधत्ते - तदयुक्तमिति । विष्णुपुराणे "कृते पापेऽनुतापा वै यस्य पुंसः प्रजायत” इति श्लोकस्य पूर्वार्धम् श्रत्र लोके हरिस्मरणपापक्षययोः साध्यसाधनसंबन्धः प्रतीयते तेन च कालत्रयानवच्छिन्नेन विधिः कल्प्यते पापक्षयकामो हरिस्मरणं कुर्यादिति । वर्तमानापदेशादविधायकत्वं विष्णुनाम कोर्तनवाक्यानाभिति तृतीयं पक्षं शङ्कतेश्रथेति । प्रतिवन्द्या परिहरति-तहति । श्रपूर्वत्वादिति । ब्रह्महत्यातरणाश्वमेधयोः साध्यसाधनसंबन्धस्य लोकानधिगतत्वादित्यर्थः । लकारविपरिणामो लटो लिङ्त्वकल्पनं यजेतेति, इहापि हरिनामोच्चारणपापनिर्हरणयोः साध्यसाधनसंबन्धस्थापूर्वत्वाद्विधित्वं भवि व्यतीत्याह- इहापीति । अथ विधिशेषत्वं कोऽसौ विधिर्यच्छेषत्वमेषां, किंनामकीर्त्तनविषयोऽन्यो वा ? न तावदन्यः, अन्यस्य विधेरसन्निधानाद् नामसंकीर्त्तनस्यैव खातन्त्र्येणोपसंहाराच, अथ नामकीर्त्तनविषय एव; तर्हि तस्य नियोज्यविशेषणान्तराश्रवणादन्यस्य कथंभावे वा श्रवणादार्थवादिकंपापनिर्हरणमेव नियोज्यविशेषणत्वेन सम्बध्यते रात्रिस न्यायेन; ततश्च कार्य्यान्वयान्न विधिशेषत्वं प्रतिपत्तिमात्रान्वयिनो हि विधिशेषाः । ननु प्रदेशान्तर स्थितमपि नामसंकीर्त्तनं प्रदेशान्तरस्थस्यापि "विष्णुरुयांशु यष्टव्योऽजामित्वाये" त्यादेः ऋतुविधेरङ्गमुपासनाविधेर्वा; तदव्यभिचारिविष्ण्वाख्यदेवतासम्बन्धमुखेन पर्णमयीत्व - ३ Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160