Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 93
________________ ७४ प्रकाशसहिता पुराणेषु श्रद्धावतः पौराणषु श्रवणकीर्तनादिष्वधिकारः, इतरस्य स्मार्तेष्वधिकार इत्युक्तमाक्षिपति-नन्विति । निर्णिक्तः प्रक्षालितः शङ्कापको यस्याः। एकदेशे पुराणादिरूपे, एकदेशान्तरे स्मृत्यादिरूपे । एकदेशविषयां श्रद्धाम् प्रकारान्तरेण दूषयति-अपि चेति । तन्निबन्धना चेत् = स्वतःप्रामाण्यनिबन्धना चेत् । तन्निबन्धना श्रद्धानिबन्धना व्यवस्थेति। इदमसांप्रतधर्मव्रम्हविषयशास्त्रयोः प्रामाण्यस्याविशिष्टत्वेऽपि श्रद्धाया व्यवस्थितत्वात् । यो ह्यकर्त्तारमात्मानमवगमयन्तीरुपनिषदोऽपि न श्रद्धत्ते स एव कर्मविधीनाद्रियते, अत एव हि तस्यैव तत्राधिकारोनेतरस्य, अन्यथा हि सर्वस्यापि सर्वत्राधिकारोऽभविष्यद्, न च तथाऽस्ति, एवमिहापि वक्तदोषविरहादेकतुलाऽऽरूढ़ेषु सर्वशास्त्रषु समानगरिमसत्सर्गसिद्धाऽपि श्रद्धा कुत्र चित् कुतश्चित् प्रतिबन्धकाददृष्टादुदाहरणभासदर्शनाचार्थान्तरपरत्वशङ्काकलङ्कन कुण्ठीकियते तदुपपन्नं तन्निबन्धना व्यवस्थेति । दूषयति-इदमिति । श्रद्धाकृतव्यवस्थामपपादयति-यो होति। विपक्ष वाधकमाह-अन्यथेति । कुतश्चिदित्येतद्विवृणोति-अदृष्टादित्यादिना । उदाहरणाभासैर्वा ग्रामेऽयमेक एवाद्वितीयः पुरुष इतिवदेकमेवाद्वितीयमित्यादिवेदान्तानामर्थान्तरपरत्वमिति भवति शङ्का । ___ भक्तरप्यधिकारिविशेषणत्वं पुराणवचनैरेवावगः म्यते, श्रीवियणुपुराणे तावद् यन्नामकीर्तनं भक्तथा विलापनमनुत्तमम् । मैत्रेयाशेषपापानां धातूनामिव पावक इति, अत्र च भक्तिशब्देन भगवदालम्बनो रत्याख्यः स्थायी भावोऽभिधीयते, न भजनमात्रं तस्य कीर्तनशब्देनोपायेषूपात्तत्वात् , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160