Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 130
________________ श्रीभगवन्नामकौमुदी । फलसिद्धेरनिवार्यत्वात्, तस्वाश्च संसारहेतुभावाद् मुमुक्षोः काम्यकर्मत्यागं समादिशद्भगवान् “काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुरि” ति, तस्मादनुताप नाधिकारे हेतुः ; नाप्यङ्गं कीर्त्तनस्य; श्रवशेनेत्यादिप्रमाणविरोधात्, कृष्णानुस्मरणं परमित्यनापि परमुत्कृष्टं प्रायश्चित्तमत्यन्तशुद्धिसाधनमावृत्तिगुणकं कृष्णकीर्त्तनमिति विवक्षितम्, अत्यन्तशुद्धिश्व सह वासनाभिः पापानां परिक्षय इति प्रपञ्चितमेव, ततश्च भविष्यद्भिः पापैरनुपश्लेषः फलमावृत्तेः कीर्त्तनमात्रस्य पुनः प्राचीन पापक्षय इत्युक्तं भवति, अत एवोक्तमुत्तरश्लोकेन " कृते पापेऽनुतापो वै यस्ये” ति, अन्यथा हि सामान्येन पापादनुतापो यस्येत्यवदिष्यद् । एवं सर्व्वत्रावृत्तानावृत्तकीर्त्तनविषयाणि वचनानि व्याख्येयानि । अत्रावृत्तिविषयाणि तावद् - नैकान्तिकं तद्धि कृतेऽपि निष्कृते मनः पुनर्द्धावति चेदसत्पथे । तत्कर्मनिहरमभीप्सतो हरेगुणानुवादः खलु सत्त्वभावनइत्यत्रावृत्तस्व भगवत्कीर्त्तनस्यात्यन्तशुद्धिहेतुत्वं स्पष्टमेव । वक्षिता । १११ नातः परं कर्मनिबन्धकृन्तनंमुमुक्षतां तीर्थपदानुकीर्त्तनादित्यत्रापि मुमुक्षूणामधिकृतत्वादत्यन्तशुद्धिरेव वि · Shree Sudharmaswami Gyanbhandar-Umara, Surat किंकरा दण्डपाशौ वा नियमो न च यातनाः www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160