Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 153
________________ १३४ प्रकाशसहिता आकृष्टिरिति । आकर्षणं बुधानामित्यर्थः। वश्यं - वशीकरणम् । मूकाः केवलं मुक्तिस्त्रियं वशीकर्तुमसमर्थाः; इतरे त्वाचण्डालं नाममा न्त्रेण वशीकर्तुं समर्थाः इत्यर्थः । प्रसिद्ध मन्त्रवैलतण्यमाह-नो दीक्षामिति । एवशब्देनाभ्यासाद्यनपेक्षत्वम् ॥ १॥ . • श्रीरामेति जनार्दनेति जगतां नाथेति नारायणेत्यानन्देति दयाधरेति कमलाकान्तेति कृष्णेति च । श्रीमन्नाममहामृताब्धिलहरीकल्लोलमग्नं मुहुमुह्यन्तं गलदधारमवशं मां नाथ नित्यं कुरु ॥२॥ नामकीर्तनाभिरुचिं प्रार्थयते-श्रीरामेति । नामैवामृताब्धिस्तल्लहरोकल्लोले मग्नं नाममात्रासक्तमित्यर्थः । मुह्यन्तं विषयानुसंधानशून्य, त्वात्। अवशं देहानुसंधानरहितम् ॥२॥ यदङ्कमालोकितुमाशु धावतांमुकुन्दयात्रोत्सवमीक्षितुं च यद् । अतच तच्च स्खलितं समं सता मतो न लज्जा स्खलतामपीह नः ॥३॥ भगवन्नाममाहात्म्यनिरूपणे स्वकृते संभावितं स्खलितं न दोषा. येत्याह-यदङ्कमिति । अङ्कः कलङ्कः दुष्टं कर्मत्यर्थः। दुष्टकर्मावलोकनाय धावतां यत्स्खलितं परमेश्वरोत्सवदर्शनाय धावतां यत्स्ख. लितं तद्वयंसतांनसमं पूर्व लजाऽऽवहं; द्वितीयं तद्विपरीतमित्यर्थः । इह भगवन्नाममाहात्म्यनिरूपणे स्खलतोमप्यस्माकं न लजेति भावः॥३॥ - अपि च. . सुरसरित इव महामहाचल गहनगुहाजायजालभेदिन्याः। हरिचरणजन्मभूमेः स्खलितमपि कृतेरलंकृतिर्ननु नः ॥४॥ . प्रत्युत तदेतत्स्खलितं गुण इत्याह-सुरसरित इति।महान्तोऽचला. 'स्तेषांगहना गुहास्ता जाड्यजालानि मोहजालानि च भिनत्ति सुरस. रित्,कतिरपि महाचलगुहावजायजालानि मोहजालानि भिनत्तिा४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160