Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 151
________________ १३२ प्रकाशसहिता ब्रह्महा द्वादशाब्दानि चरेद्, ब्रह्महा हरिं कीर्त्तयेदित्यनयोरपि भिन्नत्वाद् विकल्पः, तस्मादबाधितार्था एव स्मृतयः, न च विदुषः कर्मानुष्ठानायोगवद् अकृताधानस्योत्तरक्रतुकरणायोगवच्च, अकृतभगवत्कीर्त्तनस्य प्रायचित्तान्तरासंभवः, येन विद्वद्वाक्यवत् पूर्णाहुत्या सर्वान् कामानवाप्नोतीतिवाक्यवद्वा कीर्त्तनविषयाणामपि वाक्यानामानर्थक्यादर्थवादत्वमाश्रीयेत, तस्माद्यथाश्रुतएवार्थः पुराणवचनानामुदाहृतानामिति । एकेति । " चमसेनापः प्रणयेद्रोदोहनेन पशुकामस्ये” ति चमसगोदोहनयोरप्प्रणयननिष्पत्तिरूपैकोपकारकत्वेऽपि न विकल्पस्ततउक्तम् - एकापूर्वप्रयुक्तमिति । तयोस्तु नैकापूर्वप्रयुक्तत्वं गोदोहनस्य काम्यत्वेन दर्शाद्यपूर्वप्रयुक्तत्वाभावात् । श्रवघातप्रोक्षणयोरेकाग्नेयापूर्वप्रयुक्तत्वेऽपि न विकल्पोऽत उक्तम् - एकमुपकारं कुर्वदिति । दृष्टमिति । श्रदृष्टार्थानां विकल्पायोगादिति भावः । उक्त विकल्पप्रयोजकमङ्गीकृत्य दूषयति-तत्रेति । न च तस्यापीति । स्मृतिप्रामाण्यादिति भावः । उक्तं विकल्पप्रयोजकं दूषयतिएकेति । तत्र हेतु लौकिकानामिति हेतुगर्भं विशेषणम् । एकमुपकारं - कुर्वदित्यंशं दूषयति- भावार्थेति । भावार्थभेदो धात्वर्थभेदस्तेन चोपकारभेदो लक्ष्यते । विकल्पदर्शनादित्यनुषङ्गः । चिकित्साफलत्वेऽपि दाहच्छेदयोर्धात्वर्थयोर्भिन्नत्वादुपकारभेदेनावश्यं भवितव्यमिति भावः । श्रदिशब्देन भेषजपानम् । अथ तत्रेति । ग्रहणाग्रहणयोरित्यर्थः । इहापीति । नामकीर्त्तनस्मार्त्तप्रायश्चित्तयोरित्यर्थः । तत्र ब्रीहियववदश्वशिबिकावदिति दृष्टान्तद्वयं द्रष्टव्यम् । क्रममुक्त्यर्थानामिति । तुल्यार्थत्वं विकल्पहेतुरुक्तः । न च शाण्डिल्यादिविद्यानां विकल्पे मानाभावः, उत्तरमीमांसायां तत्साधनादिति भावः । वाssदीनामित्यादिशब्देन विकल्पशद्वः । स्वयं विकल्पप्रयोजकमाह-तस्मादिति । ननु दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामोयजेतेत्यैकस्वर्गार्थत्वेऽपि न विकल्पस्ततः कथं तुल्यार्थत्वं विकल्पप्रयोजकं ? यदि च न तत्रैकः स्वर्गस्तर्हि प्रकृतेऽपि नैकः पापक्षय इति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160