Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 152
________________ श्रीभगवन्नामकौमुदी। १३३ न विकल्प इत्याशङ्क्याह-नचेति।एकस्य पापस्येति हेतुगर्भ विशेषणं, स्वर्गे हि वैजात्यं, प्रकृते त्वेकस्य पापस्य विनाशमुद्दिश्य नामकीर्तनस्मार्तप्रायश्चित्तयोर्विधानाद्विकल्प इति भावः । ननु यथा “तरति ब्रम्ह हत्यां योऽश्वमेधेन यजते य उ चैनमेवं वेदे"त्यश्वमेधचानस्य ब्रम्हहत्या. विनाशकत्वं, यथा वा “पूर्णाहुत्या सर्वान्कामानाप्नोति" इत्याधानाङ्गपूर्णाहुतेः सर्वकामहेतुत्वं श्रूयमाणमर्थवादमात्रमेवं नामकीर्तने पापक्ष. यहेतुत्वं श्रूयमाणमर्थवादमात्रमस्तु ? तत्राह-न चेति । अश्वमेधज्ञानपूर्णाहुत्योरश्वमेधाधानाङ्गत्वात्तावन्मात्रेण फलसिद्धौ क्रत्वनुष्ठानवैय. •दर्थवादत्वं युक्तं, नामकीर्तनस्य तु स्मार्त्तप्रायश्चित्ताङ्गत्वे मानाभावात्पूर्वोक्तविधया स्मार्त्तप्रायश्चित्तानुष्ठानवैयर्थ्याभावाच्चपापक्षयश्रवणं. नार्थवाद इति भावः । अक्षरार्थस्तु-अविदुषः कर्मानुष्ठानायोगो, ऽशक्तरकृताधानस्योत्तरकतुकरणायोगोऽग्यभावादाधानसाध्यत्वादग्नीनाम् , एवमकृतनामकीर्तनस्य स्मार्त्तप्रायश्चित्ताभावो, न चेत्यन्वयः। विद्वद्वाक्यं “यउ चैनमेवं वेदेति पूर्वोक्तम् ।। ननु यदि विनैव श्रद्धा कीर्तनादेव पापक्षयः तर्हि किमस्य प्रकरणस्य प्रयोजनम् ? अनेन हि श्रद्धव साध्यते, सत्यम्, अपगतेऽपि पापे मनोगतमश्रद्धानिवन्धनंदुःखं न निवर्तते, ततस्तदपगमलक्षणाय मनःसमाधानाय प्रकरणमेतदिति प्रकरणस्य प्रयोजनं, तस्मात्सवमनवद्यम् । सत्यमिति। नामकीर्तनाङ्गश्रद्धतद्वन्थप्रयोजनमिति न ब्रमः किं. तु श्रद्धाऽस्तु वा मा वा, नामकीर्तनं पापक्षयहेतुरेव, एतद्वन्थसाध्यश्रद्धायास्त्वश्रद्धानिबन्धनदुःखनिवृत्तिः प्रयोजनं, ततश्च मनसः समाधानम् । प्राकृष्टिः कृतचेतसां सुमहतामुच्चाटनं चांहसामाचण्डालममूकलोकसुलभो वश्यश्च मोक्षश्रियः । नो दीक्षां न च दक्षिणां न च पुरश्चयां मनागीक्षते मन्त्रोऽयं रसनास्पृगेव फलति श्रीरामनामात्मकः॥१॥ प्रन्थं परिसमाप्य नाममाहात्म्यानुसंधानलक्षणं मङ्गलं विधत्ते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160