Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 139
________________ १२० प्रकाशसहिता ङ्गभूताः; न पुनरघविधातकस्य, यद्यच्युते मनो न सज्जेदिति समाधेरनुकूलत्वेन कीर्तनस्य विधानात् , समाधेश्च मोक्षफलत्वेन प्रसिद्ध। ___ ननु कीर्तनं क्रिया, न च क्रियासाधनो मोक्षः, तस्य श्रुतिस्मृतीतिहासपुराणागमयुक्तिभिर्ज्ञानकोपायत्वेना. चाय्रवधारितत्वाद् ज्ञानसाधनत्वमेव तस्य मोक्षसाधनत्वम् , अत एव समाधेःकायें विधानं, न हि समाधिरपि मोक्षसाधनं, किं तर्हि ? ज्ञानसाधनमेव, तदपि न साक्षात् श्रवणवद्, अपि तु प्रतिबन्धनिरासद्वारेण, एवंकीर्तनमपि । ___ जपकीर्तनयो देन समाधानान्तरमाह-अथ वेति । विषयभेदेन तयोर्भेदमाह-तत्रेति । मन्त्रनाम्नो दमाह-मन्त्रोपीऽति । आदिशद्वेन बीजादि।नानो लक्षणमाह-विशिष्टेति।ननु कीर्तनेऽपि जपशब्दो दृश्यते तत्राह-क्व जप इति। लाक्षणिक इति भावः। किमिति लाक्षणिकं; वासु. देवविद्यैव विवक्ष्यतां? तत्राह-संबुद्ध्यन्तत्वादिति। संबोधनान्तत्वादित्यर्थः। संबोधनान्तत्वेऽपि म वासुदेवविद्याविवक्षा,नचापशद्वत्वेनानुधारणप्रसङ्गः, हरिनामानि कीर्तयेदिति प्रातिपदिकमात्रोच्चारणस्य विहितत्वात् । ननु जपगताः शौचापेक्षत्वादयः कीर्तनेऽप्यतिदिश्यन्तांदेवतासामान्याद् ? नेत्याह-न विति। केवलेति । देशकालशौचापेक्षारहितस्य नामकीर्तनस्य पापक्षयसाधनत्वे विरोधाभावाश्चेत्यर्थः । नन्विति। श्रूयन्ते धर्मा इति । मोक्षसाधनार्था इति शेषः, समाधत्तेसत्यमिति । ज्ञानोपायत्वेनेति बहुब्रीहिः । आचार्यैः = व्यासादिभिः । समाधत्ते-झानेति।श्रवणवदिति व्यतिरेकदृष्टान्तः-यथाश्रवणं प्रमा. णखरूपान्तःपातितया साक्षात्साधनं नैव समाधिरित्यर्थः । प्रति. बन्धो = विपरीतभावना । परम्परासाम्येनाह-एवमिति। तत्रायं क्रमः-कीर्तनात् पापक्षयः, तदावृत्त्या तद्विषयाणां वासनानां प्रचयः, अपचयश्च पापवासनानां, ततो भगवजनसेवासातत्यं, ततस्तदुपवर्णितमहिमनि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160