Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 148
________________ श्रीभगवन्नामकौमुदी। १२8 मावर्त्यमानमपि न पापक्षयायालं, शिशुपालादीनांपुननिर्भरवैरानुबन्धपरिकल्पितसंपदः समाधेरिव निन्दादोषस्यापि दग्धत्वात् पुरुषार्थप्राप्तिरिति स्वयमेव सप्तमाद्ये समर्थितं श्रीशुकेन। . ___ यदप्युक्तम्-एकेनैव पुरुषार्थसिद्धरन्येषामानर्थक्यमिति, तदप्ययुक्तं, पुरुषभेदेन सर्वेषामपि पुरुषाथसाध. नत्वोपपत्तेः। यत्तु समानमहिम्नां समाहारे तत्तन्महिनामपि समाहाराराद् नैकस्य तादृशो महिमेति ? तदपि परिच्छिन्नप्रभावेषु प्रदीपादिषु घटते; न पुनर्निरङ्कुशमहिमसु भगवन्नामसु, न खलु चिन्तामणीनां निचयस्य; एकस्य वा चिन्तामणेः, कल्पशाखिनां वनस्य; एकस्य वा कल्पशाखिनः, कामधेनूनां यूथस्य; एकस्या वा कामधेनोः, कश्चिदस्ति विशेषः, समाहृतानामुच्चारणमपि नानर्थकं संस्कारप्रचयहेतुत्वाद् एकैस्यवोच्चारणप्रचयवत्, तस्मात् श्रद्धाभक्तिज्ञानवैराग्याभ्यासदेशकालविशेषादिनिरपेक्षं भगवन्नामकीर्तनमेव महदवमानातिरिक्तमप्रारब्धं प्राचीनमंहः सर्वमेव संहरति, आवर्त्यमानं पुनदुर्वासनाविध्वंसद्वारेण श्रद्धाभक्तिवैराग्यज्ञानान्युत्पादयदपवर्गसाधन: प्रारब्धपापनिवर्तकं च कदा चिदुपासकेच्छावशाद्, महदवमानस्य तु भोगएव निवर्तकः तदनुग्रहो वा, न पुनरन्यत् किं चिदिति स्थितम् ।। ननु वेनस्य कथमसद्गतिस्तेनापि भगवनिन्दायै भगवन्नामावृत्तः कृतत्वाद् ? मतभाह-चेनस्येति । भगवन्निन्दया प्रतिबद्धं सामथ्यं. Shree Sudharmaswami Gyanbhandar-Umara, Surat ald surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160