Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 135
________________ ११६ प्रकाशसहिता नन्वनागतानामनुपश्लेषोऽपि सकृत्कीर्तनादेव दृश्यते वर्तमानं च यत्पापं यद्भतं यद्भविष्यति । तत्सर्व निर्देहत्याशु गोविन्दानलकीत नमिति ? तदसद्, अत्राप्यावृत्तेरुपसंहाराद्, न चाशुशब्दस्तदु. पसंहारविरोधी, अाशुभावो हि शीघ्रता, सा च सातिशया, अतिशयश्चापेक्षिकः ततश्च, साधनान्तरेभ्यः सका. शादाशुत्वं न पुनः सद्यः साधनत्वमिति, यत्पुनरुक्तंमरणावसरे कृतस्य कीर्तनस्य विश्वासाद्यभावेऽपि साघसंहारित्वमिति ? तदप्यसद्, नियमाणो हरेर्नाम गृह्णन पुत्रोपचारितम् । अजामिलोऽप्यगाद्धाम किमुत श्रद्धया गृणन्निति खयमेव मरणकालस्याविवक्षितत्वप्रतिपादनाद्, नन्वपिना ग्रस्तमविवक्षितं भवति; तत्प्रतियोगि च कैमुत्येन संबध्यते तत्र श्रद्धायाः कैमुत्येनान्वयादश्रद्धयमेवापिशब्देन संबध्यते; पुत्रोपचरितमपि हरेर्नाम गृणन्निति; तस्मात्तस्या एवाविवक्षा न म्रियमाणतायाः ? अनोच्यते-हरेन्नामग्रहणमिह विशेष्यं तस्य च म्रियमापः पुत्रोपचारितं श्रद्धया चेति विशेषणानि; प्रधानान्वयित्वाद् गुणानां, विशेषणं च विवक्षितमविवक्षितं. वा, तत्र कैमुत्येनान्वयो विवक्षितस्य, अविवक्षितस्य पुनरपिना, तत्र यदि म्रियमाणो मुख्योऽधिकारी तर्हि खस्थोऽप्येवं किमुत म्रियमाण इत्यवक्ष्यद्, न चैवमवोचत, तस्माद म्रियमाणो नश्यचेताः श्रद्धातमसमर्थोऽपि पत्रोपचरितमपि गृणन्नजामिलो हरेर्धामैवागात् किमुत श्रद्धया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160